स होवाच वरं ब्रूहि पद्मादवतर प्रभो पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम्
सद्भाववचनं ब्रूहि पद्मादवतर प्रभो स त्वं च नो महायोगी त्वमीड्यः प्रणवात्मकः
अद्यप्रभृति सर्वेशः श्वेतोष्णीषविभूषितः पद्मयोनिरिति ह्येवं ख्यातो नाम्ना भविष्यसि
पुत्रो मे त्वं भव ब्रह्मन् सप्तलोकाधिपः प्रभो ततः स भगवान्देवो वरं दत्त्वा किरीटिने
एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः प्रत्यासन्नम् अथायान्तं बालार्काभं महाननम्
भवमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् अप्रमेयो महावक्त्रो दंष्ट्री ध्वस्तशिरोरुहः
दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतः स्थितः लोकप्रभुः स्वयं साक्षाद् विकृतो मुञ्जमेखली
मेण्ढ्रेणोर्ध्वेन महता नर्दमानो ऽतिभैरवम् कः खल्वेष पुमान् विष्णो तेजोराशिर् महाद्युतिः
व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत्
पद्भ्यां तलनिपातेन यस्य विक्रमतो ऽर्णवे वेगेन महताकाशे ऽप्युत्थिताश् च जलशयाः
स्थूलाद्भिर् विश्वतो ऽत्यर्थं सिच्यसे पद्मसंभव घ्राणजेन च वातेन कम्प्यमानं त्वया सह
दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम् समागतो भवानीशो ह्य् अनादिश्चान्तकृत्प्रभुः
भवानहं च स्तोत्रेण उपतिष्ठाव गोध्वजम् ततः क्रुद्धो ऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम्
भवान्न नूनमात्मानं वेत्ति लोकप्रभुं विभुम् ब्रह्माणं लोककर्तारं मां न वेत्सि सनातनम्
को ह्यसौ शङ्करो नाम आवयोर्व्यतिरिच्यते तस्य तत्क्रोधजं वाक्यं श्रुत्वा हरिरभाषत
मा मैवं वद कल्याण परिवादं महात्मनः महायोगेन्धनो धर्मो दुराधर्षो वरप्रदः
हेतुरस्याथ जगतः पुराणपुरुषो ऽव्ययः बीजी खल्वेष बीजानां ज्योतिरेकः प्रकाशते
बालक्रीडनकैर्देवः क्रीडते शङ्करः स्वयम् प्रधानमव्ययो योनिर् अव्यक्तं प्रकृतिस्तमः
मम चैतानि नामानि नित्यं प्रसवधर्मिणः यः कः स इति दुःखार्तैर् दृश्यते यतिभिः शिवः
एष बीजी भवान्बीजम् अहं योनिः सनातनः स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत
भवान् योनिरहं बीजं कथं बीजी महेश्वरः एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि
ज्ञात्वा च विविधोत्पत्तिं ब्रह्मणो लोकतन्त्रिणः इमं परमसादृश्यं प्रश्नम् अभ्यवदद्धरिः
अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते महतः परमं धाम शिवम् अध्यात्मिनां पदम्
द्विविधं चैवमात्मानं प्रविभज्य व्यवस्थितः निष्कलस्तत्र यो ऽव्यक्तः सकलश् च महेश्वरः
यस्य मायाविधिज्ञस्य अगम्यगहनस्य च पुरा लिङ्गोद्भवं बीजं प्रथमं त्वादिसर्गिकम्
मम योनौ समायुक्तं तद्बीजं कालपर्ययात् हिरण्मयमकूपारे योन्यामण्डमजायत
शतानि दश वर्षाणाम् अण्डम् अप्सु प्रतिष्ठितम् अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम्
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः उल्बं तस्य महोत्सेधो यो ऽसौ कनकपर्वतः
ततश् च प्रतिसंध्यात्मा देवदेवो वरः प्रभुः हिरण्यगर्भो भगवांस् त्व् अभिजज्ञे चतुर्मुखः
आ तारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च को ऽहमित्यपि च ध्याते कुमारास्ते ऽभवंस्तदा