तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः नारायणो जगद्धाता पितामहमथाब्रवीत्
भगवानादिरङ्कश् च मध्यं कालो दिशो नभः नाहमन्तं प्रपश्यामि उदरस्य तवानघ
एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः भगवानेवमेवाहं शाश्वतं हि ममोदरम्
प्रविश्य लोकान् पश्यैतान् अनौपम्यान्सुरोत्तम ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनन्द्य च
श्रीपतेरुदरं भूयः प्रविवेश पितामहः तानेव लोकान् गर्भस्थान् अपश्यत् सत्यविक्रमः
पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तो ऽहमिति प्रचिन्त्य
ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत
पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः उज्जहारात्मनो रूपं पुष्कराच्चतुराननः
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ब्रह्मा स्वयंभूर्भगवाञ् जगद्योनिः पितामहः
एतस्मिन्नन्तरे ताभ्याम् एकैकस्य तु कृत्स्नशः वर्तमाने तु संघर्षे मध्ये तस्यार्णवस्य तु
कुतो ऽप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः शूलपाणिर्महादेवो हेमवीरांबरच्छदः
अगच्छद्यत्र सो ऽनन्तो नागभोगपतिर् हरिः शीघ्रं विक्रमतस्तस्य पद्भ्याम् आक्रान्तपीडिताः
उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः अत्युष्णश्चातिशीतश् च वायुस्तत्र ववौ पुनः
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत अब्बिन्दवश् च शीतोष्णाः कम्पयन्त्यंबुजं भृशम्
एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि एतदेवंविधं वाक्यं पितामहमुखोद्गतम्
श्रुत्वाप्रतिमकर्मा हि भगवानसुरान्तकृत् किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम्
वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्
किमत्र भगवानद्य पुष्करे जातसंभ्रमः किं मया च कृतं देव यन्मां प्रियमनुत्तमम्
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः
प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः यो ऽसौ तवोदरं पूर्वं प्रविष्टो ऽहं त्वदिच्छया
यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे
ततो वर्षसहस्रात्तु उपावृत्तस्य मे ऽनघ त्वया मत्सरभावेन मां वशीकर्तुमिच्छता
आशु द्वाराणि सर्वाणि पिहितानि समन्ततः ततो मया महाभाग संचिन्त्य स्वेन तेजसा
लब्धो नाभिप्रदेशेन पद्मसूत्राद्विनिर्गमः मा भूत्ते मनसो ऽल्पो ऽपि व्याघातो ऽयं कथंचन
इत्येषानुगतिर्विष्णो कार्याणाम् औपसर्पिणी यन्मयानन्तरं कार्यं ब्रूहि किं करवाण्यहम्
ततः परममेयात्मा हिरण्यकशिपो रिपुः अनवद्यां प्रियामिष्टां शिवां वाणीं पितामहात्
श्रुत्वा विगतमात्सर्यं वाक्यमस्मै ददौ हरिः न ह्येवमीदृशं कार्यं मयाध्यवसितं तव
त्वां बोधयितुकामेन क्रीडापूर्वं यदृच्छया आशु द्वाराणि सर्वाणि घाटितानि मयात्मनः
न ते ऽन्यथावगन्तव्यं मान्यः पूज्यश् च मे भवान् सर्वं मर्षय कल्याण यन्मयापकृतं तव
अस्मान् मयोह्यमानस्त्वं पद्मादवतर प्रभो नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम्