कर्तव्यं च कृतं चैव क्रियते यच्च किंचन द्यौरन्तरिक्षं भूश्चैव परं पदमहं भुवः
तमेवमुक्त्वा भगवान् विष्णुः पुनरथाब्रवीत् कस्त्वं खलु समायातः समीपं भगवान्कुतः
क्व वा भूयश् च गन्तव्यं कश् च वा ते प्रतिश्रयः को भवान् विश्वमूर्तिर्वै कर्तव्यं किं च ते मया
एवं ब्रुवन्तं वैकुण्ठं प्रत्युवाच पितामहः मायया मोहितः शंभोर् अविज्ञाय जनार्दनम्
मायया मोहितं देवम् अविज्ञातं महात्मनः यथा भवांस्तथैवाहम् आदिकर्ता प्रजापतिः
सविस्मयं वचः श्रुत्वा ब्रह्मणो लोकतन्त्रिणः अनुज्ञातश् च ते नाथ वैकुण्ठो विश्वसंभवः
कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम् इमानष्टादश द्वीपान् ससमुद्रान् सपर्वतान्
प्रविश्य सुमहातेजाश् चातुर्वर्ण्यसमाकुलान् ब्रह्मणस्तम्भपर्यन्तं सप्तलोकान् सनातनान्
ब्रह्मणस्तूदरे दृष्ट्वा सर्वान्विष्णुर्महाभुजः अहो ऽस्य तपसो वीर्यम् इत्युक्त्वा च पुनः पुनः
अटित्वा विविधांल्लोकान् विष्णुर्नानाविधाश्रयान् ततो वर्षसहस्रान्ते नान्तं हि ददृशे यदा
तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः नारायणो जगद्धाता पितामहमथाब्रवीत्
भगवानादिरङ्कश् च मध्यं कालो दिशो नभः नाहमन्तं प्रपश्यामि उदरस्य तवानघ
एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः भगवानेवमेवाहं शाश्वतं हि ममोदरम्
प्रविश्य लोकान् पश्यैतान् अनौपम्यान्सुरोत्तम ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनन्द्य च
श्रीपतेरुदरं भूयः प्रविवेश पितामहः तानेव लोकान् गर्भस्थान् अपश्यत् सत्यविक्रमः
पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तो ऽहमिति प्रचिन्त्य
ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत
पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः उज्जहारात्मनो रूपं पुष्कराच्चतुराननः
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ब्रह्मा स्वयंभूर्भगवाञ् जगद्योनिः पितामहः
एतस्मिन्नन्तरे ताभ्याम् एकैकस्य तु कृत्स्नशः वर्तमाने तु संघर्षे मध्ये तस्यार्णवस्य तु
कुतो ऽप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः शूलपाणिर्महादेवो हेमवीरांबरच्छदः
अगच्छद्यत्र सो ऽनन्तो नागभोगपतिर् हरिः शीघ्रं विक्रमतस्तस्य पद्भ्याम् आक्रान्तपीडिताः
उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः अत्युष्णश्चातिशीतश् च वायुस्तत्र ववौ पुनः
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत अब्बिन्दवश् च शीतोष्णाः कम्पयन्त्यंबुजं भृशम्
एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि एतदेवंविधं वाक्यं पितामहमुखोद्गतम्
श्रुत्वाप्रतिमकर्मा हि भगवानसुरान्तकृत् किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम्
वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्
किमत्र भगवानद्य पुष्करे जातसंभ्रमः किं मया च कृतं देव यन्मां प्रियमनुत्तमम्
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः
प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः यो ऽसौ तवोदरं पूर्वं प्रविष्टो ऽहं त्वदिच्छया