अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ पश्यतां मां महादेवं भयं सर्वं विमुच्यताम्
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः
वामे पार्श्वे च मे विष्णुर् विश्वात्मा हृदयोद्भवः प्रीतो ऽहं युवयोः सम्यग् वरं दद्मि यथेप्सितम्
एवमुक्त्वा तु तं विष्णुं कराभ्यां परमेश्वरः पस्पर्श सुभगाभ्यां तु कृपया तु कृपानिधिः
ततः प्रहृष्टमनसा प्रणिपत्य महेश्वरम् प्राह नारायणो नाथं लिङ्गस्थं लिङ्गवर्जितम्
यदि प्रीतिः समुत्पन्ना यदि देयो वरश् च नौ भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी
देवः प्रदत्तवान् देवाः स्वात्मन्यव्यभिचारिणीम् ब्रह्मणे विष्णवे चैव श्रद्धां शीतांशुभूषणः
जानुभ्यामवनीं गत्वा पुनर्नारायणः स्वयम् प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी
आवयोर्देवदेवेश विवादमतिशोभनम् इहागतो भवान् यस्माद् विवादशमनाय नौ
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटं स्मयन्
प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते वत्स वत्स हरे विष्णो पालयैतच्चराचरम्
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया सर्गरक्षालयगुणैर् निष्कलः परमेश्वरः
संमोहं त्यज भो विष्णो पालयैनं पितामहम् पाद्मे भविष्यति सुतः कल्पे तव पितामहः
तदा द्रक्ष्यसि मां चैवं सो ऽपि द्रक्ष्यति पद्मजः एवमुक्त्वा स भगवांस् तत्रैवान्तरधीयत
तदाप्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः
लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं सुराः यस्तु लैङ्गं पठेन्नित्यम् आख्यानं लिङ्गसन्निधौ
स याति शिवतां विप्रो नात्र कार्या विचारणा
कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवो ऽभवत् भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः
एतत्सर्वं विशेषेण सांप्रतं वक्तुमर्हसि आसीदेकार्णवं घोरम् अविभागं तमोमयम्
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः जीमूताभो ऽम्बुजाक्षश् च किरीटी श्रीपतिर्हरिः
नारायणमुखोद्गीर्णसर्वात्मा पुरुषोत्तमः अष्टबाहुर्महावक्षा लोकानां योनिरुच्यते
किमप्यचिन्त्यं योगात्मा योगमास्थाय योगवित् फणासहस्रकलितं तमप्रतिमवर्चसम्
महाभोगपतेर्भोगं साध्वास्तीर्य महोच्छ्रयम् तस्मिन्महति पर्यङ्के शेते चैकार्णवे प्रभुः
एवं तत्र शयानेन विष्णुना प्रभविष्णुना आत्मारामेण क्रीडार्थं लीलयाक्लिष्टकर्मणा
शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् वज्रदण्डं महोत्सेधं नाभ्यां सृष्टं तु पुष्करम्
तस्यैवं क्रीडमानस्य समीपं देवमीढुषः हेमगर्भाण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः
चतुर्वक्त्रो विशालाक्षः समागम्य यदृच्छया श्रिया युक्तेन दिव्येन सुशुभेन सुगन्धिना
क्रीडमानं च पद्मेन दृष्ट्वा ब्रह्मा शुभेक्षणम् सविस्मयमथागम्य सौम्यसम्पन्नया गिरा
प्रोवाच को भवाञ्छेते ह्य् आश्रितो मध्यमम्भसाम् अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः
उदतिष्ठत पर्यङ्काद् विस्मयोत्फुल्ललोचनः प्रत्युवाचोत्तरं चैव कल्पे कल्पे प्रतिश्रयः