भस्मदिग्धशरीराय भानुसोमाग्निहेतवे श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च
सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च श्वेतास्याय महास्याय नमस्ते श्वेतलोहित
सुताराय विशिष्टाय नमो दुन्दुभिने हर शतरूपविरूपाय नमः केतुमते सदा
ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने विपाशाय सुपाशाय नमस्ते पाशनाशिने
सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे सुमुखाय सुवक्त्राय दुर्दमाय दमाय च
कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग सनकाय नमस्तुभ्यं सनातन सनन्दन
सनत्कुमारसारङ्गम् आरणाय महात्मने लोकाक्षिणे त्रिधामाय नमो विरजसे सदा
शङ्खपालाय शङ्खाय रजसे तमसे नमः सारस्वताय मेघाय मेघवाहन ते नमः
सुवाहाय विवाहाय विवादवरदाय च नमः शिवाय रुद्राय प्रधानाय नमोनमः
त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः संसाराय नमस्तुभ्यं नमः संसारहेतवे
मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमोनमः आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः
नमो भगवते तुभ्यं नागानां पतये नमः ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः
सर्वाय च नमस्तुभ्यं नमो नारायणाय च नमो हिरण्यगर्भाय आदिदेवाय ते नमः
नमो ऽस्त्वजाय पतये प्रजानां व्यूहहेतवे महादेवाय देवानाम् ईश्वराय नमो नमः
शर्वाय च नमस्तुभ्यं सत्याय शमनाय च ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः
महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः चितये चितिरूपाय स्मृतिरूपाय वै नमः
ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः
अर्धनारीशरीराय अव्यक्ताय नमोनमः एकादशविभेदाय स्थाणवे ते नमः सदा
नमः सोमाय सूर्याय भवाय भवहारिणे यशस्कराय देवाय शङ्करायेश्वराय च
नमो ऽंबिकाधिपतये उमायाः पतये नमः हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे
नीलकेशाय वित्ताय शितिकण्ठाय वै नमः कपर्दिने नमस्तुभ्यं नागाङ्गाभरणाय च
वृषारूढाय सर्वस्य हर्त्रे कर्त्रे नमोनमः वीररामातिरामाय रामनाथाय ते विभो
नमो राजाधिराजाय राज्ञामधिगताय ते नमः पालाधिपतये पालाशाकृन्तते नमः
नमः केयूरभूषाय गोपते ते नमोनमः नमः श्रीकण्ठनाथाय नमो लिकुचपाणये
भुवनेशाय देवाय वेदशास्त्र नमो ऽस्तु ते सारङ्गाय नमस्तुभ्यं राजहंसाय ते नमः
कनकाङ्गदहाराय नमः सर्पोपवीतिने सर्पकुण्डलमालाय कटिसूत्रीकृताहिने
वेदगर्भाय गर्भाय विश्वगर्भाय ते शिव विररामेति संस्तुत्वा ब्रह्मणा सहितो हरिः
एतत्स्तोत्रवरं पुण्यं सर्वपापप्रणाशनम् यः पठेच्छ्रावयेद्वापि ब्राह्मणान् वेदपारगान्
स याति ब्रह्मणो लोके पापकर्मरतो ऽपि वै तस्माज्जपेत्पठेन्नित्यं श्रावयेद्ब्राह्मणाञ्छुभान्
सर्वपापविशुद्ध्यर्थं विष्णुना परिभाषितम्