अग्नये रुद्ररूपाय रुद्राणां पतये नमः शिवाय शिवमन्त्राय सद्योजाताय वेधसे
वामाय वामदेवाय वरदायामृताय ते अघोरायातिघोराय सद्योजाताय रंहसे
ईशानाय श्मशानाय अतिवेगाय वेगिने नमो ऽस्तु श्रुतिपादाय ऊर्ध्वलिङ्गाय लिङ्गिने
हेमलिङ्गाय हेमाय वारिलिङ्गाय चांभसे शिवाय शिवलिङ्गाय व्यापिने व्योमव्यापिने
वायवे वायुवेगाय नमस्ते वायुव्यापिने तेजसे तेजसां भर्त्रे नमस्तेजो ऽधिव्यापिने
जलाय जलभूताय नमस्ते जलव्यापिने पृथिव्यै चान्तरिक्षाय पृथिवीव्यापिने नमः
शब्दस्पर्शस्वरूपाय रसगन्धाय गन्धिने गणाधिपतये तुभ्यं गुह्याद्गुह्यतमाय ते
अनन्ताय विरूपाय अनन्तानामयाय च शाश्वताय वरिष्ठाय वारिगर्भाय योगिने
संस्थितायाम्भसां मध्ये आवयोर्मध्यवर्चसे गोप्त्रे हर्त्रे सदा कर्त्रे निधनायेश्वराय च
अचेतनाय चिन्त्याय चेतनायासहारिणे अरूपाय सुरूपाय अनङ्गायाङ्गहारिणे
भस्मदिग्धशरीराय भानुसोमाग्निहेतवे श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च
सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च श्वेतास्याय महास्याय नमस्ते श्वेतलोहित
सुताराय विशिष्टाय नमो दुन्दुभिने हर शतरूपविरूपाय नमः केतुमते सदा
ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने विपाशाय सुपाशाय नमस्ते पाशनाशिने
सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे सुमुखाय सुवक्त्राय दुर्दमाय दमाय च
कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग सनकाय नमस्तुभ्यं सनातन सनन्दन
सनत्कुमारसारङ्गम् आरणाय महात्मने लोकाक्षिणे त्रिधामाय नमो विरजसे सदा
शङ्खपालाय शङ्खाय रजसे तमसे नमः सारस्वताय मेघाय मेघवाहन ते नमः
सुवाहाय विवाहाय विवादवरदाय च नमः शिवाय रुद्राय प्रधानाय नमोनमः
त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः संसाराय नमस्तुभ्यं नमः संसारहेतवे
मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमोनमः आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः
नमो भगवते तुभ्यं नागानां पतये नमः ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः
सर्वाय च नमस्तुभ्यं नमो नारायणाय च नमो हिरण्यगर्भाय आदिदेवाय ते नमः
नमो ऽस्त्वजाय पतये प्रजानां व्यूहहेतवे महादेवाय देवानाम् ईश्वराय नमो नमः
शर्वाय च नमस्तुभ्यं सत्याय शमनाय च ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः
महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः चितये चितिरूपाय स्मृतिरूपाय वै नमः
ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः
अर्धनारीशरीराय अव्यक्ताय नमोनमः एकादशविभेदाय स्थाणवे ते नमः सदा
नमः सोमाय सूर्याय भवाय भवहारिणे यशस्कराय देवाय शङ्करायेश्वराय च
नमो ऽंबिकाधिपतये उमायाः पतये नमः हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे