वृष्ण्यन्धकविनाशाय शापः पिण्डारवासिनाम् एरकस्य तथोत्पत्तिस् तोमरस्योद्भवस् तथा
एरकालाभतो ऽन्योन्यं विवादे वृष्णिविग्रहः लीलया चैव कृष्णेन स्वकुलस्य च संहृतिः
एरकास्त्रबलेनैव गमनं स्वेच्छयैव तु ब्रह्मणश्चैव मोक्षस्य विज्ञानं तु सुविस्तरम्
पुरान्धकाग्निदक्षाणां शक्रेभमृगरूपिणाम् मदनस्यादिदेवस्य ब्रह्मणश् चामरारिणाम्
हलाहलस्य दैत्यस्य कृतावज्ञा पिनाकिना जालंधरवधश्चैव सुदर्शनसमुद्भवः
विष्णोर्वरायुधावाप्तिस् तथा रुद्रस्य चेष्टितम् तथान्यानि च रुद्रस्य चरितानि सहस्रशः
हरेः पितामहस्याथ शक्रस्य च महात्मनः प्रभावानुभवश्चैव शिवलोकस्य वर्णनम्
भूमौ रुद्रस्य लोकं च पाताले हाटकेश्वरम् तपसां लक्षणं चैव द्विजानां वैभवं तथा
आधिक्यं सर्वमूर्तीनां लिङ्गमूर्तेर्विशेषतः लिङ्गे ऽस्मिन्नानुपूर्व्येण विस्तरेणानुकीर्त्यते
एतज्ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत्तु यः सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति
अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम्
प्रधानं प्रकृतिश्चेति यदाहुर्लिङ्गमुत्तमम् गन्धवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम्
अगुणं ध्रुवमक्षय्यम् अलिङ्गं शिवलक्षणम् गन्धवर्णरसैर्युक्तं शब्दस्पर्शादिलक्षणम्
जगद्योनिं महाभूतं स्थूलं सूक्ष्मं द्विजोत्तमाः विग्रहो जगतां लिङ्गम् अलिङ्गाद् अभवत्स्वयम्
सप्तधाचाष्टधा चैव तथैकादशधा पुनः लिङ्गान्यलिङ्गस्य तथा मायया विततानि तु
तेभ्यः प्रधानदेवानां त्रयमासीच्छिवात्मकम् एकस्मात्त्रिष्वभूद्विश्वम् एकेन परिरक्षितम्
एकेनैव हृतं विश्वं व्याप्तं त्वेवं शिवेन तु अलिङ्गं चैव लिङ्गं च लिङ्गालिङ्गानि मूर्तयः
यथावत्कथिताश्चैव तस्माद्ब्रह्म स्वयं जगत् अलिङ्गी भगवान् बीजी स एव परमेश्वरः
बीजं योनिश् च निर्बीजं निर्बीजो बीजमुच्यते बीजयोनिप्रधानानाम् आत्माख्या वर्तते त्विह
परमात्मा मुनिर्ब्रह्म नित्यबुद्धस्वभावतः विशुद्धो ऽयं तथा रुद्रः पुराणे शिव उच्यते
शिवेन दृष्टा प्रकृतिः शैवी समभवद्द्विजाः सर्गादौ सा गुणैर्युक्ता पुराव्यक्ता स्वभावतः
अव्यक्तादिविशेषान्तं विश्वं तस्याः समुच्छ्रितम् विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता
तामजां लोहितां शुक्लां कृष्णामेकां बहुप्रजाम् जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम्
तामेवाजामजो ऽन्यस्तु भुक्तभोगां जहाति च अजा जनित्री जगतां साजेन समधिष्ठिता
प्रादुर्बभूव स महान् पुरुषाधिष्ठितस्य च अजाज्ञया प्रधानस्य सर्गकाले गुणैस् त्रिभिः
सिसृक्षया चोद्यमानः प्रविश्याव्यक्तमव्ययम् व्यक्तसृष्टिं विकुरुते चात्मनाधिष्ठितो महान्
महतस्तु तथा वृत्तिः संकल्पाध्यवसायिका महतस् त्रिगुणस् तस्माद् अहंकारो रजो ऽधिकः
तेनैव चावृतः सम्यग् अहंकारस् तमो ऽधिकः महतो भूततन्मात्रं सर्गकृद्वै बभूव च
अहंकाराच्छब्दमात्रं तस्मादाकाशमव्ययम् सशब्दमावृणोत्पश्चाद् आकाशं शब्दकारणम्
तन्मात्राद्भूतसर्गश् च द्विजास्त्वेवं प्रकीर्तितः स्पर्शमात्रं तथाकाशात् तस्माद्वायुर् महान्मुने