प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी श्रद्धा चैव महादेव सान्निध्यं चैव सर्वदा
एवमुक्तस्तदा तेन प्रहसन्निव शङ्करः दत्त्वेप्सितं हि विप्राय तत्रैवान्तरधीयत
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम्
कथं लब्धं तदा ज्ञानं तस्मात्कृष्णेन धीमता वक्तुमर्हसि तां सूत कथां पातकनाशिनीम्
स्वेच्छया ह्यवतीर्णो ऽपि वासुदेवः सनातनः निन्दयन्नेव मानुष्यं देहशुद्धिं चकार सः
पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम्
नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः बहुमानेन वै कृष्णस् त्रिः कृत्वा वै प्रदक्षिणम्
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा
भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः तमग्निरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात्
दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः मुनेः प्रसादान्मान्यो ऽसौ कृष्णः पाशुपते द्विजाः
तपसा त्वेकवर्षान्ते दृष्ट्वा देवं महेश्वरम् सांबं सगणमव्यग्रं लब्धवान्पुत्रमात्मनः
तदाप्रभृति तं कृष्णं मुनयः संशितव्रताः दिव्याः पाशुपताः सर्वे तस्थुः संवृत्य सर्वदा
अन्यं च कथयिष्यामि मुक्त्यर्थं प्राणिनां सदा सौवर्णीं मेखलां कृत्वा आधारं दण्डधारणम्
सौवर्णं पिण्डिकं चापि व्यजनं दण्डमेव च नरैः स्त्रियाथ वा कार्यं मषीभाजनलेखनीम्
क्षुराः कर्तरिका चापि अथ पात्रमथापि वा पाशुपताय दातव्यं भस्मोद्धूलितविग्रहैः
सौवर्णं राजतं वापि ताम्रं वाथ निवेदयेत् आत्मवित्तानुसारेण योगिनं पूजयेद्बुधः
ते सर्वे पापनिर्मुक्ताः समस्तकुलसंयुताः यान्ति रुद्रपदं दिव्यं नात्र कार्या विचारणा
तस्मादनेन दानेन गृहस्थो मुच्यते भवात् योगिनां संप्रदानेन शिवः क्षिप्रं प्रसीदति
राज्यं पुत्रं धनं भव्यम् अश्वं यानमथापि वा सर्वस्वं वापि दातव्यं यदीच्छेन्मोक्षमुत्तमम्
अध्रुवेण शरीरेण ध्रुवं साध्यं प्रयत्नतः भव्यं पाशुपतं नित्यं संसारार्णवतारकम्
एतद्वः कथितं सर्वं संक्षेपान्न च संशयः यः पठेच्छृणुयाद्वापि विष्णुलोकं स गच्छति