गौरी माया च विद्या च कृष्णा हैमवतीति च प्रधानं प्रकृतिश्चैव यामाहुस्तत्त्वचिन्तकाः
अजामेकां लोहितां शुक्लकृष्णां विश्वप्रजां सृजमानां सरूपाम् अजो ऽहं मां विद्धि तां विश्वरूपं गायत्रीं गां विश्वरूपां हि बुद्ध्या
एवमुक्त्वा महादेवः ससर्ज परमेश्वरः ततश् च पार्श्वगा देव्याः सर्वरूपकुमारकाः
जटी मुण्डी शिखण्डी च अर्धमुण्डश् च जज्ञिरे ततस्तेन यथोक्तेन योगेन सुमहौजसः
दिव्यवर्षसहस्रान्ते उपासित्वा महेश्वरम् धर्मोपदेशमखिलं कृत्वा योगमयं दृढम्
शिष्टाश् च नियतात्मानः प्रविष्टा रुद्रमीश्वरम्
एवं संक्षेपतः प्रोक्तः सह्यादीनां समुद्भवः यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्
स याति ब्रह्मसायुज्यं प्रसादात्परमेष्ठिनः कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः
किं लिङ्गं कस् तथा लिङ्गी सूत वक्तुमिहार्हसि एवं देवाश् च ऋषयः प्रणिपत्य पितामहम्
अपृच्छन् भगवंल्लिङ्गं कथमासीदिति स्वयम् लिङ्गे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति
किं लिङ्गं कस् तथा लिङ्गी सो ऽप्याह च पितामहः प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः
रक्षार्थमंबुधौ मह्यं विष्णोस्त्वासीत् सुरोत्तमाः वैमानिके गते सर्गे जनलोकं सहर्षिभिः
स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा चतुर्युगसहस्रान्ते सत्यलोकं गते सुराः
विनाधिपत्यं समतां गते ऽन्ते ब्रह्मणो मम शुष्के च स्थावरे सर्वे त्व् अनावृष्ट्या च सर्वशः
पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः गन्धर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः
एकार्णवे महाघोरे तमोभूते समन्ततः सुष्वापांभसि योगात्मा निर्मलो निरुपप्लवः
सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः
हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम् सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः
कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः नारायणो महाबाहुः सर्वात्मा सदसन्मयः
तथाभूतमहं दृष्ट्वा शयानं पङ्कजेक्षणम् मायया मोहितस्तस्य तमवोचममर्षितः
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् तदा हस्तप्रहारेण तीव्रेण स दृढेन तु
प्रबुद्धो ऽहीयशयनात् समासीनः क्षणं वशी ददर्श निद्राविक्लिन्ननीरजामललोचनः
मामग्रे संस्थितं भासाध्यासितो भगवान् हरिः आह चोत्थाय भगवान् हसन्मां मधुरं सकृत्
स्वागतंस्वागतं वत्स पितामह महाद्युते तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभाः
रजसा बद्धवैरश् च तमवोचं जनार्दनम् भाषसे वत्स वत्सेति सर्गसंहारकारणम्
माम् इहान्तःस्मितं कृत्वा गुरुः शिष्यमिवानघ कर्तारं जगतां साक्षात् प्रकृतेश् च प्रवर्तकम्
सनातनमजं विष्णुं विरिञ्चिं विश्वसंभवम् विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम्
किमर्थं भाषसे मोहाद् वक्तुमर्हसि सत्वरम् सो ऽपि मामाह जगतां कर्ताहमिति लोकय
भर्ता हर्ता भवान् अङ्गाद् अवतीर्णो ममाव्ययात् विस्मृतो ऽसि जगन्नाथं नारायणमनामयम्
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्