आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम् निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्
पुरा मात्रा तु कथितं तथ्यमेव न संशयः पूर्वजन्मनि चास्माभिर् अपूजित इति प्रभुः
एवमुक्त्वा तु तं देवम् उपमन्युरभीतवत् शक्रं चक्रे मतिं हन्तुम् अथर्वास्त्रेण मन्त्रवित्
भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च
दग्धुं स्वदेहम् आग्नेयीं ध्यात्वा वै धारणां तदा अतिष्ठच्च महातेजाः शुष्केन्धनमिवाव्ययः
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा वारयामास सौम्येन धारणां तस्य योगिनः
अथर्वास्त्रं तदा तस्य संहृतं चन्द्रकेण तु कालाग्निसदृशं चेदं नियोगान्नन्दिनस् तथा
स्वरूपमेव भगवान् आस्थाय परमेश्वरः दर्शयामास विप्राय बालेन्दुकृतशेखरम्
क्षीरधारासहस्रं च क्षीरोदार्णवमेव च दध्यादेरर्णवं चैव घृतोदार्णवमेव च
फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा अपूपगिरयश्चैव तथातिष्ठन् समन्ततः
उपमन्युमुवाच सस्मितो भगवान्बन्धुजनैः समावृतम् गिरिजाम् अवलोक्य सस्मितां सघृणं प्रेक्ष्यतु तं तदा घृणी
भुङ्क्ष्व भोगान्यथाकामं बान्धवैः पश्य वत्स मे
मया पुत्रीकृतो ऽस्यद्य दत्तः क्षीरोदधिस् तथा मधुनश्चार्णवश्चैव दध्नश्चार्णव एव च
आज्योदनार्णवश्चैव फललेह्यार्णवस् तथा अपूपगिरयश्चैव भक्ष्यभोज्यार्णवः पुनः
पिता तव महादेवः पिता वै जगतां मुने माता तव महाभागा जगन्माता न संशयः
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् वरान्वरय दास्यामि नात्र कार्या विचारणा
एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम् आघ्राय मूर्धनि विभुर् ददौ देव्यास्तदा भवः
देवी तनयमालोक्य ददौ तस्मै गिरीन्द्रजा योगैश्वर्यं तदा तुष्टा ब्रह्मविद्यां द्विजोत्तमाः
सो ऽपि लब्ध्वा वरं तस्याः कुमारत्वं च सर्वदा तुष्टाव च महादेवं हर्षगद्गदया गिरा
वरयामास च तदा वरेण्यं विरजेक्षणम् कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनः पुनः
प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी श्रद्धा चैव महादेव सान्निध्यं चैव सर्वदा
एवमुक्तस्तदा तेन प्रहसन्निव शङ्करः दत्त्वेप्सितं हि विप्राय तत्रैवान्तरधीयत
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम्
कथं लब्धं तदा ज्ञानं तस्मात्कृष्णेन धीमता वक्तुमर्हसि तां सूत कथां पातकनाशिनीम्
स्वेच्छया ह्यवतीर्णो ऽपि वासुदेवः सनातनः निन्दयन्नेव मानुष्यं देहशुद्धिं चकार सः
पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम्
नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः बहुमानेन वै कृष्णस् त्रिः कृत्वा वै प्रदक्षिणम्
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा
भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः तमग्निरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात्
दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः मुनेः प्रसादान्मान्यो ऽसौ कृष्णः पाशुपते द्विजाः