दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृताञ्जलिः भगवन् ब्राह्मणः कश्चिद् उपमन्युरितिश्रुतः
क्षीरार्थमदहत्सर्वं तपसा तं निवारय एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः शक्ररूपं समास्थाय गन्तुं चक्रे मतिं तदा
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः सह सुरासुरसिद्धमहोरगैर् अमरराजतनुं स्वयमास्थितः
वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम्
रराज भगवान् सोमः शक्ररूपी सदाशिवः सितातपत्रेण यथा चन्द्रबिंबेन मन्दरः
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः जगामानुग्रहं कर्तुम् उपमन्योस् तदाश्रमम्
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम्
पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम् प्राप्तः शक्रो जगन्नाथो भगवान्भानुना प्रभुः
एवमुक्त्वा स्थितं वीक्ष्य कृताञ्जलिपुटं द्विजम् प्राह गंभीरया वाचा शक्ररूपधरो हरः
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ददामि चेप्सितान् सर्वान् धौम्याग्रज महामते
एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः वरयामि शिवे भक्तिम् इत्युवाच कृताञ्जलिः
ततो निशम्य वचनं मुनेः कुपितवत्प्रभुः प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम्
मां न जानासि देवर्षे देवराजानमीश्वरम् त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम्
ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम् उपमन्युरिदं प्राह जपन् पञ्चाक्षरं शुभम्
मन्ये शक्रस्य रूपेण नूनम् अत्रागतः स्वयम् कर्तुं दैत्याधमः कश्चिद् धर्मविघ्नं च नान्यथा
त्वयैव कथितं सर्वं भवनिन्दारतेन वै प्रसंगाद्देवदेवस्य निर्गुणत्वं महात्मनः
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् भवान्तरकृतं पापं श्रुता निन्दा भवस्य तु
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव संत्यजेत् स्वदेहं तं निहत्याशु शिवलोकं स गच्छति
यो वाचोत्पाटयेज्जिह्वां शिवनिन्दारतस्य तु त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति
आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम् निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्
पुरा मात्रा तु कथितं तथ्यमेव न संशयः पूर्वजन्मनि चास्माभिर् अपूजित इति प्रभुः
एवमुक्त्वा तु तं देवम् उपमन्युरभीतवत् शक्रं चक्रे मतिं हन्तुम् अथर्वास्त्रेण मन्त्रवित्
भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च
दग्धुं स्वदेहम् आग्नेयीं ध्यात्वा वै धारणां तदा अतिष्ठच्च महातेजाः शुष्केन्धनमिवाव्ययः
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा वारयामास सौम्येन धारणां तस्य योगिनः
अथर्वास्त्रं तदा तस्य संहृतं चन्द्रकेण तु कालाग्निसदृशं चेदं नियोगान्नन्दिनस् तथा
स्वरूपमेव भगवान् आस्थाय परमेश्वरः दर्शयामास विप्राय बालेन्दुकृतशेखरम्
क्षीरधारासहस्रं च क्षीरोदार्णवमेव च दध्यादेरर्णवं चैव घृतोदार्णवमेव च
फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा अपूपगिरयश्चैव तथातिष्ठन् समन्ततः