राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् न लभन्ते प्रियाण्येषां नो तुष्यति सदा भवः
भवप्रसादजं सर्वं नान्यदेवप्रसादजम् अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च
क्षीरं तत्र कुतो ऽस्माकं महादेवो न पूजितः पूर्वजन्मनि यद्दत्तं शिवमुद्यम्य वै सुत
तदेव लभ्यं नान्यत्तु विष्णुमुद्यम्य वा प्रभुम् निशम्य वचनं मातुर् उपमन्युर्महाद्युतिः
बालो ऽपि मातरं प्राह प्रणिपत्य तपस्विनीम् त्यज शोकं महाभागे महादेवो ऽस्ति चेत्क्वचित्
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् तां प्रणम्यैवमुक्त्वा स तपः कर्तुं प्रचक्रमे
तमाह माता सुशुभं कुर्विति सुतरां सुतम् अनुज्ञातस्तया तत्र तपस्तेपे सुदुस्तरम्
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः तपसा तस्य विप्रस्य विधूपितमभूज्जगत्
प्रणम्याहुस्तु तत्सर्वे हरये देवसत्तमाः श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः
किमिदं त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया
दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृताञ्जलिः भगवन् ब्राह्मणः कश्चिद् उपमन्युरितिश्रुतः
क्षीरार्थमदहत्सर्वं तपसा तं निवारय एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः शक्ररूपं समास्थाय गन्तुं चक्रे मतिं तदा
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः सह सुरासुरसिद्धमहोरगैर् अमरराजतनुं स्वयमास्थितः
वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम्
रराज भगवान् सोमः शक्ररूपी सदाशिवः सितातपत्रेण यथा चन्द्रबिंबेन मन्दरः
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः जगामानुग्रहं कर्तुम् उपमन्योस् तदाश्रमम्
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम्
पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम् प्राप्तः शक्रो जगन्नाथो भगवान्भानुना प्रभुः
एवमुक्त्वा स्थितं वीक्ष्य कृताञ्जलिपुटं द्विजम् प्राह गंभीरया वाचा शक्ररूपधरो हरः
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ददामि चेप्सितान् सर्वान् धौम्याग्रज महामते
एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः वरयामि शिवे भक्तिम् इत्युवाच कृताञ्जलिः
ततो निशम्य वचनं मुनेः कुपितवत्प्रभुः प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम्
मां न जानासि देवर्षे देवराजानमीश्वरम् त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम्
ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम् उपमन्युरिदं प्राह जपन् पञ्चाक्षरं शुभम्
मन्ये शक्रस्य रूपेण नूनम् अत्रागतः स्वयम् कर्तुं दैत्याधमः कश्चिद् धर्मविघ्नं च नान्यथा
त्वयैव कथितं सर्वं भवनिन्दारतेन वै प्रसंगाद्देवदेवस्य निर्गुणत्वं महात्मनः
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् भवान्तरकृतं पापं श्रुता निन्दा भवस्य तु
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव संत्यजेत् स्वदेहं तं निहत्याशु शिवलोकं स गच्छति
यो वाचोत्पाटयेज्जिह्वां शिवनिन्दारतस्य तु त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति