एकेनांशेन देवेशं प्रविष्टा देवसत्तमम् न विवेद तदा ब्रह्मा देवाश्चेन्द्रपुरोगमाः
गिरिजां पूर्ववच्छंभोर् दृष्ट्वा पार्श्वस्थितां शुभाम् मायया मोहितस्तस्याः सर्वज्ञो ऽपि चतुर्मुखः
सा प्रविष्टा तनुं तस्य देवदेवस्य पार्वती कण्ठस्थेन विषेणास्य तनुं चक्रे तदात्मनः
तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनीम्
जाता यदा कालिमकालकण्ठी जाता तदानीं विपुला जयश्रीः देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य
जातां तदानीं सुरसिद्धसंघा दृष्ट्वा भयाद् दुद्रुवुर् अग्निकल्पाम् कालीं गरालंकृतकालकण्ठीम् उपेन्द्रपद्मोद्भवशक्रमुख्याः
तथैव जातं नयनं ललाटे सितांशुलेखा च शिरस्युदग्रा कण्ठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि
सार्धं दिव्यांबरा देव्याः सर्वाभरणभूषिताः सिद्धेन्द्रसिद्धाश् च तथा पिशाचा जज्ञिरे पुनः
आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी दानवं सूदयामास सूदयन्तं सुराधिपान्
संरंभातिप्रसंगाद् वै तस्याः सर्वमिदं जगत् क्रोधाग्निना च विप्रेन्द्राः संबभूव तदातुरम्
भवो ऽपि बालरूपेण श्मशाने प्रेतसंकुले रुरोद मायया तस्याः क्रोधाग्निं पातुम् ईश्वरः
तं दृष्ट्वा बालमीशानं मायया तस्य मोहिता उत्थाप्याघ्राय वक्षोजं स्तनं सा प्रददौ द्विजाः
स्तनजेन तदा सार्धं कोपमस्याः पपौ पुनः क्रोधेनानेन वै बालः क्षेत्राणां रक्षको ऽभवत्
मूर्तयो ऽष्टौ च तस्यापि क्षेत्रपालस्य धीमतः एवं वै तेन बालेन कृता सा क्रोधमूर्छिता
कृतमस्याः प्रसादार्थं देवदेवेन ताण्डवम् संध्यायां सर्वभूतेन्द्रैः प्रेतैः प्रीतेन शूलिना
पीत्वा नृत्यामृतं शंभोर् आकण्ठं परमेश्वरी ननर्त सा च योगिन्यः प्रेतस्थाने यथासुखम्
तत्र सब्रह्मका देवाः सेन्द्रोपेन्द्राः समन्ततः प्रणेमुस्तुष्टुवुः कालीं पुनर्देवीं च पार्वतीम्
एवं संक्षेपतः प्रोक्तं ताण्डवं शूलिनः प्रभोः योगानन्देन च विभोस् ताण्डवं चेति चापरे
पुरोपमन्युना सूत गाणपत्यं महेश्वरात् क्षीरार्णवः कथं लब्धो वक्तुमर्हसि सांप्रतम्
एवं कालीम् उपालभ्य गते देवे त्रियंबके उपमन्युः समभ्यर्च्य तपसा लब्धवान्फलम्
उपमन्युरिति ख्यातो मुनिश् च द्विजसत्तमाः कुमार इव तेजस्वी क्रीडमानो यदृच्छया
कदाचित् क्षीरम् अल्पं च पीतवान् मातुलाश्रमे ईर्ष्यया मातुलसुतो ह्य् अपिबत् क्षीरम् उत्तमम्
पीत्वा स्थितं यथाकामं दृष्ट्वा प्रोवाच मातरम् मातर्मातर्महाभागे मम देहि तपस्विनि
गव्यं क्षीरम् अतिस्वादु नाल्पमुष्णं नमाम्यहम् उपलालितैवं पुत्रेण पुत्रम् आलिङ्ग्य सादरम्
दुःखिता विललापार्ता स्मृत्वा नैर्धन्यमात्मनः स्मृत्वा स्मृत्वा पुनः क्षीरम् उपमन्युरपि द्विजाः देहि देहीति तामाह रोदमानो महाद्युतिः
उञ्छवृत्त्यार्जितान् बीजान् स्वयं पिष्ट्वा च सा तदा बीजपिष्टं तदालोड्य तोयेन कलभाषिणी
ऐह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः
पीत्वा च कृत्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमाः नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः
दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्धनि संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलायते
तटिनी रत्नपूर्णास्ते स्वर्गपातालगोचराः भाग्यहीना न पश्यन्ति भक्तिहीनाश् च ये शिवे