जगत्त्रये ऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः संपूज्यो वन्दनीयश् च भविष्यसि न संशयः
मां च नारायणं वापि ब्रह्माणम् अपि पुत्रक यजन्ति यज्ञैर्वा विप्रैर् अग्रे पूज्यो भविष्यसि
त्वाम् अनभ्यर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम् कुरुते तस्य कल्याणम् अकल्याणं भविष्यति
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन सम्पूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः
त्वां गन्धपुष्पधूपाद्यैर् अनभ्यर्च्य जगत्त्रये देवैरपि तथान्यैश् च लब्धव्यं नास्ति कुत्रचित्
अभ्यर्चयन्ति ये लोका मानवास्तु विनायकम् ते चार्चनीयाः शक्राद्यैर् भविष्यन्ति न संशयः
अजं हरिं च मां वापि शक्रमन्यान्सुरानपि विघ्नैर् बाधयसि त्वां चेन् नार्चयन्ति फलार्थिनः
ससर्ज च तदा विघ्नगणं गणपतिः प्रभुः गणैः सार्धं नमस्कृत्वाप्य् अतिष्ठत्तस्य चाग्रतः
तदा प्रभृति लोके ऽस्मिन् पूजयन्ति गणेश्वरम् दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः
एतद्वः कथितं सर्वं स्कन्दाग्रजसमुद्भवम् यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत्
नृत्यारम्भः कथं शंभोः किमर्थं वा यथातथम् वक्तुमर्हसि चास्माकं श्रुतः स्कन्दाग्रजोद्भवः
दारुको ऽसुरसम्भूतस् तपसा लब्धविक्रमः सूदयामास कालाग्निर् इव देवान्द्विजोत्तमान्
दारुकेण तदा देवास् ताडिताः पीडिता भृशम् ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च
यममिन्द्रमनुप्राप्य स्त्रीवध्य इति चासुरः स्त्रीरूपधारिभिः स्तुत्यैर् ब्रह्माद्यैर्युधि संस्थितैः
बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम्
सम्प्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधा नतः
दारुणो भगवान्दारुः पूर्वं तेन विनिर्जिताः निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि
विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा देवीमुवाच देवेशो गिरिजां प्रहसन्निव
भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने
अथ सा तस्य वचनं निशम्य जगतो ऽरणिः विवेश देहे देवस्य देवेशी जन्मतत्परा
एकेनांशेन देवेशं प्रविष्टा देवसत्तमम् न विवेद तदा ब्रह्मा देवाश्चेन्द्रपुरोगमाः
गिरिजां पूर्ववच्छंभोर् दृष्ट्वा पार्श्वस्थितां शुभाम् मायया मोहितस्तस्याः सर्वज्ञो ऽपि चतुर्मुखः
सा प्रविष्टा तनुं तस्य देवदेवस्य पार्वती कण्ठस्थेन विषेणास्य तनुं चक्रे तदात्मनः
तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनीम्
जाता यदा कालिमकालकण्ठी जाता तदानीं विपुला जयश्रीः देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य
जातां तदानीं सुरसिद्धसंघा दृष्ट्वा भयाद् दुद्रुवुर् अग्निकल्पाम् कालीं गरालंकृतकालकण्ठीम् उपेन्द्रपद्मोद्भवशक्रमुख्याः
तथैव जातं नयनं ललाटे सितांशुलेखा च शिरस्युदग्रा कण्ठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि
सार्धं दिव्यांबरा देव्याः सर्वाभरणभूषिताः सिद्धेन्द्रसिद्धाश् च तथा पिशाचा जज्ञिरे पुनः
आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी दानवं सूदयामास सूदयन्तं सुराधिपान्
संरंभातिप्रसंगाद् वै तस्याः सर्वमिदं जगत् क्रोधाग्निना च विप्रेन्द्राः संबभूव तदातुरम्