तदा तयोर्विनिर्गतः सुभैरवः स मूर्तिमान् स्थितो ननर्त बालकः समस्तमङ्गलालयः
विचित्रवस्त्रभूषणैर् अलंकृतो गजाननः महेश्वरस्य पुत्रको ऽभिवन्द्य तातम् अम्बिकाम्
जातमात्रं सुतं दृष्ट्वा चकार भगवान्भवः गजाननाय कृत्यांस्तु सर्वान्सर्वेश्वरः स्वयम्
आदाय च कराभ्यां च सुसुखाभ्यां भवः स्वयम् आलिङ्ग्याघ्राय मूर्धानं महादेवो जगद्गुरुः
तवावतारो दैत्यानां विनाशाय ममात्मज देवानामुपकारार्थं द्विजानां ब्रह्मवादिनाम्
यज्ञश् च दक्षिणाहीनः कृतो येन महीतले तस्य धर्मस्य विघ्नं च कुरु स्वर्गपथे स्थितः
अध्यापनं चाध्ययनं व्याख्यानं कर्म एव च यो ऽन्यायतः करोत्यस्मिन् तस्य प्राणान्सदा हर
वर्णाच्च्युतानां नारीणां नराणां नरपुङ्गव स्वधर्मरहितानां च प्राणानपहर प्रभो
याः स्त्रियस्त्वां सदा कालं पुरुषाश् च विनायक यजन्ति तासां तेषां च त्वत्साम्यं दातुमर्हसि
त्वं भक्तान् सर्वयत्नेन रक्ष बालगणेश्वर यौवनस्थांश् च वृद्धांश् च इहामुत्र च पूजितः
जगत्त्रये ऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः संपूज्यो वन्दनीयश् च भविष्यसि न संशयः
मां च नारायणं वापि ब्रह्माणम् अपि पुत्रक यजन्ति यज्ञैर्वा विप्रैर् अग्रे पूज्यो भविष्यसि
त्वाम् अनभ्यर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम् कुरुते तस्य कल्याणम् अकल्याणं भविष्यति
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन सम्पूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः
त्वां गन्धपुष्पधूपाद्यैर् अनभ्यर्च्य जगत्त्रये देवैरपि तथान्यैश् च लब्धव्यं नास्ति कुत्रचित्
अभ्यर्चयन्ति ये लोका मानवास्तु विनायकम् ते चार्चनीयाः शक्राद्यैर् भविष्यन्ति न संशयः
अजं हरिं च मां वापि शक्रमन्यान्सुरानपि विघ्नैर् बाधयसि त्वां चेन् नार्चयन्ति फलार्थिनः
ससर्ज च तदा विघ्नगणं गणपतिः प्रभुः गणैः सार्धं नमस्कृत्वाप्य् अतिष्ठत्तस्य चाग्रतः
तदा प्रभृति लोके ऽस्मिन् पूजयन्ति गणेश्वरम् दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः
एतद्वः कथितं सर्वं स्कन्दाग्रजसमुद्भवम् यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत्
नृत्यारम्भः कथं शंभोः किमर्थं वा यथातथम् वक्तुमर्हसि चास्माकं श्रुतः स्कन्दाग्रजोद्भवः
दारुको ऽसुरसम्भूतस् तपसा लब्धविक्रमः सूदयामास कालाग्निर् इव देवान्द्विजोत्तमान्
दारुकेण तदा देवास् ताडिताः पीडिता भृशम् ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च
यममिन्द्रमनुप्राप्य स्त्रीवध्य इति चासुरः स्त्रीरूपधारिभिः स्तुत्यैर् ब्रह्माद्यैर्युधि संस्थितैः
बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम्
सम्प्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधा नतः
दारुणो भगवान्दारुः पूर्वं तेन विनिर्जिताः निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि
विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा देवीमुवाच देवेशो गिरिजां प्रहसन्निव
भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने
अथ सा तस्य वचनं निशम्य जगतो ऽरणिः विवेश देहे देवस्य देवेशी जन्मतत्परा