शृणुष्वैतत्परं गुह्यम् आदिसर्गे यथा तथा एवं यो वर्तते कल्पो विश्वरूपस्त्वसौ मतः
ब्रह्मस्थानमिदं चापि यत्र प्राप्तं त्वया प्रभो त्वत्तः परतरं देव विष्णुना तत्पदं शुभम्
वैकुण्ठेन विशुद्धेन मम वामाङ्गजेन वा तदाप्रभृति कल्पश् च त्रयस्त्रिंशत्तमो ह्ययम्
शतं शतसहस्राणाम् अतीता ये स्वयंभुवः पुरस्तात्तव देवेश तच्छृणुष्व महामते
आनन्दस्तु स विज्ञेय आनन्दत्वे व्यवस्थितः माण्डव्यगोत्रस्तपसा मम पुत्रत्वमागतः
त्वयि योगं च सांख्यं च तपोविद्याविधिक्रियाः ऋतं सत्यं दया ब्रह्म अहिंसा सन्मतिः क्षमा
ध्यानं ध्येयं दमः शान्तिर् विद्याविद्या मतिर्धृतिः कान्तिर्नीतिः प्रथा मेधा लज्जा दृष्टिः सरस्वती
तुष्टिः पुष्टिः क्रिया चैव प्रसादश् च प्रतिष्ठिताः द्वात्रिंशत्सुगुणा ह्येषा द्वात्रिंशाक्षरसंज्ञया
प्रकृतिर्विहिता ब्रह्मंस् त्वत्प्रसूतिर्महेश्वरी विष्णोर्भगवतश्चापि तथान्येषामपि प्रभो
सैषा भगवती देवी मत्प्रसूतिः प्रतिष्ठिता चतुर्मुखी जगद्योनिः प्रकृतिर् गौः प्रतिष्ठिता
गौरी माया च विद्या च कृष्णा हैमवतीति च प्रधानं प्रकृतिश्चैव यामाहुस्तत्त्वचिन्तकाः
अजामेकां लोहितां शुक्लकृष्णां विश्वप्रजां सृजमानां सरूपाम् अजो ऽहं मां विद्धि तां विश्वरूपं गायत्रीं गां विश्वरूपां हि बुद्ध्या
एवमुक्त्वा महादेवः ससर्ज परमेश्वरः ततश् च पार्श्वगा देव्याः सर्वरूपकुमारकाः
जटी मुण्डी शिखण्डी च अर्धमुण्डश् च जज्ञिरे ततस्तेन यथोक्तेन योगेन सुमहौजसः
दिव्यवर्षसहस्रान्ते उपासित्वा महेश्वरम् धर्मोपदेशमखिलं कृत्वा योगमयं दृढम्
शिष्टाश् च नियतात्मानः प्रविष्टा रुद्रमीश्वरम्
एवं संक्षेपतः प्रोक्तः सह्यादीनां समुद्भवः यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्
स याति ब्रह्मसायुज्यं प्रसादात्परमेष्ठिनः कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः
किं लिङ्गं कस् तथा लिङ्गी सूत वक्तुमिहार्हसि एवं देवाश् च ऋषयः प्रणिपत्य पितामहम्
अपृच्छन् भगवंल्लिङ्गं कथमासीदिति स्वयम् लिङ्गे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति
किं लिङ्गं कस् तथा लिङ्गी सो ऽप्याह च पितामहः प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः
रक्षार्थमंबुधौ मह्यं विष्णोस्त्वासीत् सुरोत्तमाः वैमानिके गते सर्गे जनलोकं सहर्षिभिः
स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा चतुर्युगसहस्रान्ते सत्यलोकं गते सुराः
विनाधिपत्यं समतां गते ऽन्ते ब्रह्मणो मम शुष्के च स्थावरे सर्वे त्व् अनावृष्ट्या च सर्वशः
पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः गन्धर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः
एकार्णवे महाघोरे तमोभूते समन्ततः सुष्वापांभसि योगात्मा निर्मलो निरुपप्लवः
सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः
हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम् सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः
कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः नारायणो महाबाहुः सर्वात्मा सदसन्मयः
तथाभूतमहं दृष्ट्वा शयानं पङ्कजेक्षणम् मायया मोहितस्तस्य तमवोचममर्षितः