कालाग्निरुद्ररूपाय धर्माद्यष्टपदाय च कालीविशुद्धदेहाय कालिकाकारणाय ते
कालकण्ठाय मुख्याय वाहनाय वराय ते अंबिकापतये तुभ्यं हिरण्यपतये नमः
हिरण्यरेतसे चैव नमः शर्वाय शूलिने कपालदण्डपाशासिचर्माङ्कुशधराय च
पतये हैमवत्याश् च हेमशुक्लाय ते नमः पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने
पञ्चमाय महापञ्चयज्ञिनां फलदाय च पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते
पञ्चधा पञ्चकैवल्यदेवैरर्चितमूर्तये पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते
षोडशस्वरवज्राङ्गवक्त्रायाक्षयरूपिणे कादिपञ्चकहस्ताय चादिहस्ताय ते नमः
टादिपादाय रुद्राय तादिपादाय ते नमः पादिमेण्ढ्राय यद्यङ्गधातुसप्तकधारिणे
शान्तात्मरूपिणे साक्षात् क्षदन्तक्रोधिने नमः लवरेफहलाङ्गाय निरङ्गाय च ते नमः
सर्वेषाम् एव भूतानां हृदि निःस्वनकारिणे भ्रुवोर् अन्ते सदा सद्भिर् दृष्टायात्यन्तभानवे
भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः
तीर्थतत्त्वाय साराय तस्मादपि पराय ते ऋग्यजुःसामवेदाय ओंकाराय नमो नमः
ओङ्कारे त्रिविधं रूपम् आस्थायोपरिवासिने पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे
स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात् ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमोनमः
अंबायाः परमेशाय सर्वोपरिचराय ते मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः
सर्वसंकल्पशून्याय सर्वस्माद्रक्षिताय ते आदिमध्यान्तशून्याय चित्संस्थाय नमोनमः
यमाग्निवायुरुद्रांबुसोमशक्रनिशाचरैः दिङ्मुखे दिङ्मुखे नित्यं सगणैः पूजिताय ते
सर्वेषु सर्वदा सर्वमार्गे सम्पूजिताय ते रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे महेश्वराय धीराय नमः साक्षाच्छिवाय ते
मखमदनयमाग्निदक्षयज्ञक्षपणविचित्रविचेष्टितं क्षमस्व
यः पठेत्तु स्तवं भक्त्या शक्राग्निप्रमुखैः सुरैः कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम्
यदा स्थिताः सुरेश्वराः प्रणम्य चैवमीश्वरम् तदांबिकापतिर् भवः पिनाकधृङ् महेश्वरः
ददौ निरीक्षणं क्षणाद् भवः स तान्सुरोत्तमान् प्रणेमुरादराद्धरं सुरा मुदार्द्रलोचनाः
भवः सुधामृतोपमैर् निरीक्षणैर्निरीक्षणात् तदाह भद्रमस्तु वः सुरेश्वरान् महेश्वरः
वरार्थमीश वीक्ष्यते सुरा गृहं गतास्त्विमे प्रणम्य चाह वाक्पतिः पतिं निरीक्ष्य निर्भयः
सुरेतरादिभिः सदा ह्य् अविघ्नमर्थितो भवान् समस्तकर्मसिद्धये सुरापकारकारिभिः
ततः प्रसीदताद् भवान् सुविघ्नकर्मकारणम् सुरापकारकारिणाम् इहैष एव नो वरः
ततस्तदा निशम्य वै पिनाकधृक् सुरेश्वरः गणेश्वरं सुरेश्वरं वपुर्दधार सः शिवः
गणेश्वराश् च तुष्टुवुः सुरेश्वरा महेश्वरम् समस्तलोकसंभवं भवार्त्तिहारिणं शुभम्
इभाननाश्रितं वरं त्रिशूलपाशधारिणम् समस्तलोकसंभवं गजाननं तदांबिका
ददुः पुष्पवर्षं हि सिद्धा मुनीन्द्रास् तथा खेचरा देवसंघास्तदानीम् तदा तुष्टुवुश्चैकदन्तं सुरेशाः प्रणेमुर्गणेशं महेशं वितन्द्राः