सगणो नन्दिना सार्धं सर्वदेवगणैर्वृतः पुरीं वाराणसीं दिव्याम् आजगाम महाद्युतिः
अविमुक्ते सुखासीनं प्रणम्य वृषभध्वजम् अपृच्छत्क्षेत्रमाहात्म्यं भवानी हर्षितानना
अथाहार्धेन्दुतिलकः क्षेत्रमाहात्म्यमुत्तमम् अविमुक्तस्य माहात्म्यं विस्तराच्छक्यते नहि
वक्तुं मया सुरेशानि ऋषिसंघाभिपूजितम् किं मया वर्ण्यते देवी ह्य् अविमुक्तफलोदयः
पापिनां यत्र मुक्तिः स्यान् मृतानाम् एकजन्मना अन्यत्र तु कृतं पापं वाराणस्यां व्यपोहति
वाराणस्यां कृतं पापं पैशाच्यनरकावहम् कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना यत्र त्रिविष्टपो देवो यत्र विश्वेश्वरो विभुः
ओंकारेशः कृत्तिवासा मृतानां न पुनर्भवः उक्त्वा क्षेत्रस्य माहात्म्यं संक्षेपाच्छशिशेखरः
दर्शयामास चोद्यानं परित्यज्य गणेश्वरान् तत्रैव भगवान् जातो गजवक्त्रो विनायकः
दैत्यानां विघ्नरूपार्थम् अविघ्नाय दिवौकसाम् एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम्
यथाश्रुतं मया सर्वं प्रसादाद्वः सुशोभनम्
कथं विनायको जातो गजवक्त्रो गणेश्वरः कथं प्रभावस्तस्यैवं सूत वक्तुमिहार्हसि
एतस्मिन्नन्तरे देवाः सेन्द्रोपेन्द्राः समेत्य ते धर्मविघ्नं तदा कर्तुं दैत्यानामभवन्द्विजाः
असुरा यातुधानाश् च राक्षसाः क्रूरकर्मिणः तामसाश् च तथा चान्ये राजसाश् च तथा भुवि
अविघ्नं यज्ञदानाद्यैः समभ्यर्च्य महेश्वरम् ब्रह्माणं च हरिं विप्रा लब्धेप्सितवरा यतः
ततो ऽस्माकं सुरश्रेष्ठाः सदा विजयसंभवः तेषां ततस्तु विघ्नार्थम् अविघ्नाय दिवौकसाम्
पुत्रार्थं चैव नारीणां नराणां कर्मसिद्धये विघ्नेशं शङ्करं स्रष्टुं गणपं स्तोतुमर्हथ
इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम् नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने
अनघाय विरिञ्चाय देव्याः कार्यार्थदायिने अकायायार्थकायाय हरेः कायापहारिणे
कायान्तस्थामृताधारमण्डलावस्थिताय ते कृतादिभेदकालाय कालवेगाय ते नमः
कालाग्निरुद्ररूपाय धर्माद्यष्टपदाय च कालीविशुद्धदेहाय कालिकाकारणाय ते
कालकण्ठाय मुख्याय वाहनाय वराय ते अंबिकापतये तुभ्यं हिरण्यपतये नमः
हिरण्यरेतसे चैव नमः शर्वाय शूलिने कपालदण्डपाशासिचर्माङ्कुशधराय च
पतये हैमवत्याश् च हेमशुक्लाय ते नमः पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने
पञ्चमाय महापञ्चयज्ञिनां फलदाय च पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते
पञ्चधा पञ्चकैवल्यदेवैरर्चितमूर्तये पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते
षोडशस्वरवज्राङ्गवक्त्रायाक्षयरूपिणे कादिपञ्चकहस्ताय चादिहस्ताय ते नमः
टादिपादाय रुद्राय तादिपादाय ते नमः पादिमेण्ढ्राय यद्यङ्गधातुसप्तकधारिणे
शान्तात्मरूपिणे साक्षात् क्षदन्तक्रोधिने नमः लवरेफहलाङ्गाय निरङ्गाय च ते नमः
सर्वेषाम् एव भूतानां हृदि निःस्वनकारिणे भ्रुवोर् अन्ते सदा सद्भिर् दृष्टायात्यन्तभानवे