श्रौतस्मार्तप्रवृत्त्यर्थम् उद्वाहार्थम् इहागतः अतो ऽसौ जगतां धात्री धाता तव ममापि च
अस्य देवस्य रुद्रस्य मूर्तिभिर् विहितं जगत् क्ष्माबग्निखेन्दुसूर्यात्मपवनात्मा यतो भवः
तथापि तस्मै दातव्या वचनाच्च गिरेर्मम एषा ह्य् अजा शुक्लकृष्णा लोहिता प्रकृतिर्भवान्
श्रेयो ऽपि शैलराजेन संबन्धो ऽयं तवापि च तव पाद्मे समुद्भूतः कल्पे नाभ्यंबुजादहम्
मदंशस्यास्य शैलस्य ममापि च गुरुर्भवान् बाढम् इत्यजम् आहासौ देवदेवो जनार्दनः
देवाश् च मुनयः सर्वे देवदेवश् च शङ्करः ततश्चोत्थाय विद्वान्सः पद्मनाभः प्रणम्य ताम्
पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षणः अभ्युक्षद् आत्मनो मूर्ध्नि ब्रह्मणश् च गिरेस् तथा
त्वदीयैषा विवाहार्थं मेनजा ह्यनुजा मम इत्युक्त्वा सोदकं दत्त्वा देवीं देवेश्वराय ताम्
स्वात्मानमपि देवाय सोदकं प्रददौ हरिः अथ सर्वे मुनिश्रेष्ठाः सर्ववेदार्थपारगाः
ऊचुर्दाता गृहीता च फलं द्रव्यं विचारतः एष देवो हरो नूनं मायया हि ततो जगत्
इत्युक्त्वा तं प्रणेमुश् च प्रीतिकण्टकितत्वचः ससृजुः पुष्पवर्षाणि खेचराः सिद्धचारणाः
देवदुन्दुभयो नेदुर् ननृतुश्चाप्सरोगणाः वेदाश् च मूर्तिमन्तस्ते प्रणेमुस्तं महेश्वरम्
ब्रह्मणा मुनिभिः सार्धं देवदेवमुमापतिम् देवो ऽपि देवीमालोक्य सलज्जां हिमशैलजाम्
न तृप्यत्यनवद्याङ्गी सा च देवं वृषध्वजम् वरदो ऽस्मीति तं प्राह हरिं सो ऽप्याह शङ्करम्
त्वयि भक्तिः प्रसीदेति ब्रह्माख्यां च ददौ तु सः ततस्तु पुनरेवाह ब्रह्मा विज्ञापयन्प्रभुम्
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ददासि मम यद्याज्ञां कर्तव्यो ह्यकृतो विधिः
तमाह शङ्करो देवं देवदेवो जगत्पतिः यद्यदिष्टं सुरश्रेष्ठ तत्कुरुष्व यथेप्सितम्
कर्तास्मि वचनं सर्वं देवदेव पितामह ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः
हस्तं देवस्य देव्याश् च युयोज परमं प्रभुः ज्वलनश् च स्वयं तत्र कृताञ्जलिरुपस्थितः
श्रौतैरेतैर्महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः यथोक्तविधिना हुत्वा लाजानपि यथाक्रमम्
आनीतान्विष्णुना विप्रान् सम्पूज्य विविधैर्वरैः त्रिश् च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्
मुक्त्वा हस्तसमायोगं सहितैः सर्वदैवतैः सुरैश् च मानवैः सर्वैः प्रहृष्टेनान्तरात्मना
ननाम भगवान्ब्रह्मा देवदेवमुमापतिम् ततः पाद्यं तयोर् दत्त्वा शंभोराचमनं तथा
मधुपर्कं तथा गां च प्रणम्य च पुनः शिवम् अतिष्ठद्भगवान्ब्रह्मा देवैरिन्द्रपुरोगमैः
भृग्वाद्यमुनयः सर्वे चाक्षतैस्तिलतण्डुलैः सूर्यादयः समभ्यर्च्य तुष्टुवुर्वृषभध्वजम्
शिवः समाप्य देवोक्तं वह्निमारोप्य चात्मनि तया समागतो रुद्रः सर्वलोकहिताय वै
यः पठेच्छृणुयाद्वापि भवोद्वाहं शुचिस्मितः श्रावयेद्वा द्विजाञ्छुद्धान् वेदवेदाङ्गपारगान्
स लब्ध्वा गाणपत्यं च भवेन सह मोदते यत्रायं कीर्त्यते विप्रैस् तावदास्ते तदा भवः
तस्मात् सम्पूज्य विधिवत् कीर्तयेन्नान्यथा द्विजाः उद्वाहे च द्विजेन्द्राणां क्षत्रियाणां द्विजोत्तमाः
कीर्तनीयमिदं सर्वं भवोद्वाहमनुत्तमम् कृतोद्वाहस्तदा देव्या हैमवत्या वृषध्वजः