तवाहं दक्षिणाद्धस्तात् सृष्टः पूर्वं पुरातनः वामहस्तान् महाबाहो देवो नारायणः प्रभुः
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण पत्नीरूपं समास्थाय जगत्कारणमागता
नमस्तुभ्यं महादेव महादेव्यै नमोनमः प्रसादात्तव देवेश नियोगाच्च मया प्रजाः
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे
विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम् संस्तम्भितांस्तदा तेन भगवान् आह पद्मजः
मूढास्थ देवताः सर्वा नैव बुध्यत शङ्करम् देवदेवम् इहायान्तं सर्वदेवनमस्कृतम्
गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः सनारायणकाः सर्वे मुनिभिः शङ्करं प्रभुम्
सार्धं मयैव देवेशं परमात्मानमीश्वरम् अनया हैमवत्या च प्रकृत्या सह सत्तमम्
तत्र ते स्तम्भितास्तेन तथैव सुरसत्तमाः प्रणेमुर् मनसा सर्वे सनारायणकाः प्रभुम्
अथ तेषां प्रसन्नो भूद् देवदेवस्त्रियंबकः यथापूर्वं चकाराशु वचनाद्ब्रह्मणः प्रभुः
तत एवं प्रसन्ने तु सर्वदेवनिवारणम् वपुश्चकार देवेशो दिव्यं परममद्भुतम्
तेजसा तस्य देवास्ते सेन्द्रचन्द्रदिवाकराः सब्रह्मकाः ससाध्याश् च सनारायणकास् तथा
सयमाश् च सरुद्राश् च चक्षुरप्रार्थयन् विभुम् तेभ्यश् च परमं चक्षुः सर्वदृष्टौ च शक्तिमत्
ददावंबापतिः शर्वो भवान्याश् च चलस्य च लब्ध्वा चक्षुस्तदा देवा इन्द्रविष्णुपुरोगमाः
सब्रह्मकः सशक्राश् च तमपश्यन्महेश्वरम् ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः
मुनयश् च महादेवं गणेशाः शिवसंमताः ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः
देवदुन्दुभयो नेदुस् तुष्टुवुर्मुनयः प्रभुम् जगुर्गन्धर्वमुख्याश् च ननृतुश्चाप्सरोगणाः
मुमुहुर्गणपाः सर्वे मुमोदांबा च पार्वती तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्
पादयोः स्थापयामास मालां दिव्यां सुगन्धिनीम् साधु साध्विति सम्प्रोच्य तया तत्रैव चार्चितम्
सह देव्या नमश्चक्रुः शिरोभिर् भूतलाश्रितैः सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः
अथ ब्रह्मा महादेवम् अभिवन्द्य कृताञ्जलिः उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्
तस्य तद्वचनं श्रुत्वा ब्रह्मणः परमेष्ठिनः यथेष्टमिति लोकेशं प्राह भूतपतिः प्रभुः
उद्वाहार्थं महेशस्य तत्क्षणादेव सुव्रताः ब्रह्मणा कल्पितं दिव्यं पुरं रत्नमयं शुभम्
अथादितिर्दितिः साक्षाद् दनुः कद्रुः सुकालिका पुलोमा सुरसा चैव सिंहिका विनता तथा
सिद्धिर्माया क्रिया दुर्गा देवी साक्षात्सुधा स्वधा सावित्री वेदमाता च रजनी दक्षिणा द्युतिः
स्वाहा स्वाहामतिर् बुद्धिर् ऋद्धिर् वृद्धिः सरस्वती राका कुहूः सिनीवाली देवी अनुमती तथा
धरणी धारणी चेला शची नारायणी तथा एताश्चान्याश् च देवानां मातरः पत्नयस् तथा
उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः उरगा गरुडा यक्षा गन्धर्वाः किन्नरा गणाः
सागरा गिरयो मेघा मासाः संवत्सरास् तथा वेदा मन्त्रास् तथा यज्ञाः स्तोमा धर्माश् च सर्वशः
हुङ्कारः प्रणवश्चैव प्रतिहाराः सहस्रशः कोटिरप्सरसो दिव्यास् तासां च परिचारिकाः