यमो ऽपि दण्डं खड्गं च निरृतिर्मुनिपुङ्गवाः वरुणो नागपाशं च ध्वजयष्टिं समीरणः
सोमो गदां धनेशश् च दण्डं दण्डभृतां वरः ईशानश् च तथा शूलं तीव्रमुद्यम्य संस्थितः
रुद्राश् च शूलमादित्या मुशलं वसवस् तथा मुद्गरं स्तम्भिताः सर्वे देवेनाशु दिवौकसः
स्तम्भिता देवदेवेन तथान्ये च दिवौकसः शिरः प्रकम्पयन् विष्णुश् चक्रम् उद्यम्य संस्थितः
तस्यापि शिरसो बालः स्थिरत्वं प्रचकार ह चक्रं क्षेप्तुं न शशाक बाहूंश्चालयितुं न च
पूषा दन्तान् दशन् दन्तैर् बालमैक्षत मोहितः तस्यापि दशनाः पेतुर् दृष्टमात्रस्य शंभुना
बलं तेजश् च योगं च तथैवास्तम्भयद् विभुः अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि
ब्रह्मा परमसंविग्नो ध्यानमास्थाय शङ्करम् बुबुधे देवमीशानम् उमोत्संगे तमास्थितम्
स बुद्ध्वा देवमीशानं शीघ्रम् उत्थाय विस्मितः ववन्दे चरणौ शंभोर् अस्तुवच्च पितामहः
बुद्धिस्त्वं सर्वलोकानाम् अहङ्कारस् त्वम् ईश्वरः भूतानामिन्द्रियाणां च त्वमेवेश प्रवर्त्तकः
तवाहं दक्षिणाद्धस्तात् सृष्टः पूर्वं पुरातनः वामहस्तान् महाबाहो देवो नारायणः प्रभुः
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण पत्नीरूपं समास्थाय जगत्कारणमागता
नमस्तुभ्यं महादेव महादेव्यै नमोनमः प्रसादात्तव देवेश नियोगाच्च मया प्रजाः
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे
विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम् संस्तम्भितांस्तदा तेन भगवान् आह पद्मजः
मूढास्थ देवताः सर्वा नैव बुध्यत शङ्करम् देवदेवम् इहायान्तं सर्वदेवनमस्कृतम्
गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः सनारायणकाः सर्वे मुनिभिः शङ्करं प्रभुम्
सार्धं मयैव देवेशं परमात्मानमीश्वरम् अनया हैमवत्या च प्रकृत्या सह सत्तमम्
तत्र ते स्तम्भितास्तेन तथैव सुरसत्तमाः प्रणेमुर् मनसा सर्वे सनारायणकाः प्रभुम्
अथ तेषां प्रसन्नो भूद् देवदेवस्त्रियंबकः यथापूर्वं चकाराशु वचनाद्ब्रह्मणः प्रभुः
तत एवं प्रसन्ने तु सर्वदेवनिवारणम् वपुश्चकार देवेशो दिव्यं परममद्भुतम्
तेजसा तस्य देवास्ते सेन्द्रचन्द्रदिवाकराः सब्रह्मकाः ससाध्याश् च सनारायणकास् तथा
सयमाश् च सरुद्राश् च चक्षुरप्रार्थयन् विभुम् तेभ्यश् च परमं चक्षुः सर्वदृष्टौ च शक्तिमत्
ददावंबापतिः शर्वो भवान्याश् च चलस्य च लब्ध्वा चक्षुस्तदा देवा इन्द्रविष्णुपुरोगमाः
सब्रह्मकः सशक्राश् च तमपश्यन्महेश्वरम् ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः
मुनयश् च महादेवं गणेशाः शिवसंमताः ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः
देवदुन्दुभयो नेदुस् तुष्टुवुर्मुनयः प्रभुम् जगुर्गन्धर्वमुख्याश् च ननृतुश्चाप्सरोगणाः
मुमुहुर्गणपाः सर्वे मुमोदांबा च पार्वती तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्
पादयोः स्थापयामास मालां दिव्यां सुगन्धिनीम् साधु साध्विति सम्प्रोच्य तया तत्रैव चार्चितम्
सह देव्या नमश्चक्रुः शिरोभिर् भूतलाश्रितैः सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः