जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः तपोवनं महादेव्याः पार्वत्याः पद्मसंभवः
प्रदक्षिणीकृत्य च तां देवीं स जगतो ऽरणीम् किम् अर्थं तपसा लोकान् संतापयसि शैलजे
त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विनाशय त्वं हि संधारयेल्लोकान् इमान् सर्वान् स्वतेजसा
सर्वदेवेश्वरः श्रीमान् सर्वलोकपतिर्भवः यस्य वै देवदेवस्य वयं किङ्करवादिनः
स एवं परमेशानः स्वयं च वरयिष्यति वरदे येन सृष्टासि न विना यस्त्वयांबिके
वर्तते नात्र संदेहस् तव भर्त्ता भविष्यति इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम्
गते पितामहे देवो भगवान् परमेश्वरः जगामानुग्रहं कर्तुं द्विजरूपेण चाश्रमम्
सा च दृष्ट्वा महादेवं द्विजरूपेण संस्थितम् प्रतिभाद्यैः प्रभुं ज्ञात्वा ननाम वृषभध्वजम्
सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम् तुष्टाव परमेशानं पार्वती परमेश्वरम्
अनुगृह्य तदा देवीम् उवाच प्रहसन्निव कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः
क्रीडार्थं च सतां मध्ये सर्वदेवपतिर्भवः स्वयंवरे महादेवी तव दिव्यसुशोभने
आस्थाय रूपं यत्सौम्यं समेष्ये ऽहं सह त्वया इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा
जगामेष्टं तदा दिव्यं स्वपुरं प्रययौ च सा दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः
आलिङ्ग्याघ्राय सम्पूज्य पुत्रीं साक्षात्तपस्विनीम् दुहितुर्देवदेवेन न जानन्नभिमन्त्रितम्
स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत् अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः
शक्रश् च भगवान् वह्निर् भास्करो भग एव च त्वष्टार्यमा विवस्वांश् च यमो वरुण एव च
वायुः सोमस्तथेशानो रुद्राश् च मुनयस् तथा अश्विनौ द्वादशादित्या गन्धर्वा गरुडस् तथा
यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषोरगाः समुद्राश् च नदा वेदा मन्त्राः स्तोत्रादयः क्षणाः
नागाश् च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः त्रयस्त्रिंशच्च देवानां त्रयश् च त्रिशतं तथा
त्रयश् च त्रिसहस्रं च तथान्ये बहवः सुरा जग्मुर् गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्
अथ शैलसुता देवी हैममारुह्य शोभनम् विमानं सर्वतोभद्रं सर्वरत्नैर् अलंकृतम्
अप्सरोभिः प्रनृत्ताभिः सर्वाभरणभूषितैः गन्धर्वसिद्धैर्विविधैः किन्नरैश् च सुशोभनैः
बन्दिभिः स्तूयमाना च स्थिता शैलसुता तदा सितातपत्रं रत्नांशुमिश्रितं चावहत्तथा
मालिनी गिरिपुत्र्यास्तु संध्या पूर्णेन्दुमण्डलम् चामरासक्तहस्ताभिर् दिव्यस्त्रीभिश् च संवृता
मालां गृह्य जया तस्थौ सुरद्रुमसमुद्भवाम् विजया व्यजनं गृह्य स्थिता देव्याः समीपगा
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः
उत्सङ्गतलसंसुप्तो बभूव भगवान्भवः अथ दृष्ट्वा शिशुं देवास् तस्या उत्संगवर्त्तिनम्
को ऽयम् अत्रेति संमन्त्र्य चुक्षुभुश् च समागताः वज्रमाहारयत्तस्य बाहुम् उद्यम्य वृत्रहा
स बाहुरुद्यमस्तस्य तथैव समुपस्थितः स्तम्भितः शिशुरूपेण देवदेवेन लीलया
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं तथा वह्निः शक्तिं तथा क्षेप्तुं न शशाक तथा स्थितः