गत्वा तदाश्रये शंभोः सह रत्या महाबलः वसंतेन सहायेन देवं योक्तुमना भवत्
ततः सम्प्रेक्ष्य मदनं हसन् देवस् त्रियंबकः नयनेन तृतीयेन सावज्ञं तम् अवैक्षत
ततो ऽस्य नेत्रजो वह्निर् मदनं पार्श्वतः स्थितम् अदहत्तत्क्षणादेव ललाप करुणं रतिः
रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः कृपया परया प्राह कामपत्नीं निरीक्ष्य च
अमूर्तो ऽपि ध्रुवं भद्रे कार्यं सर्वं पतिस्तव रतिकाले ध्रुवे भद्रे करिष्यति न संशयः
यदा विष्णुश् च भविता वासुदेवो महायशाः शापाद्भृगोर्महातेजाः सर्वलोकहिताय वै
तदा तस्य सुतो यश् च स पतिस्ते भविष्यति सा प्रणम्य तदा रुद्रं कामपत्नी शुचिस्मिता
जगाम मदनं लब्ध्वा वसंतेन समन्विता
तपसा च महादेव्याः पार्वत्या वृषभध्वज प्रीतिश् च भगवाञ्छर्वो वचनाद्ब्रह्मणस्तदा
हिताय चाश्रमाणां च क्रीडार्थं भगवान्भवः तदा हैमवतीं देवीम् उपयेमे यथाविधि
जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः तपोवनं महादेव्याः पार्वत्याः पद्मसंभवः
प्रदक्षिणीकृत्य च तां देवीं स जगतो ऽरणीम् किम् अर्थं तपसा लोकान् संतापयसि शैलजे
त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विनाशय त्वं हि संधारयेल्लोकान् इमान् सर्वान् स्वतेजसा
सर्वदेवेश्वरः श्रीमान् सर्वलोकपतिर्भवः यस्य वै देवदेवस्य वयं किङ्करवादिनः
स एवं परमेशानः स्वयं च वरयिष्यति वरदे येन सृष्टासि न विना यस्त्वयांबिके
वर्तते नात्र संदेहस् तव भर्त्ता भविष्यति इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम्
गते पितामहे देवो भगवान् परमेश्वरः जगामानुग्रहं कर्तुं द्विजरूपेण चाश्रमम्
सा च दृष्ट्वा महादेवं द्विजरूपेण संस्थितम् प्रतिभाद्यैः प्रभुं ज्ञात्वा ननाम वृषभध्वजम्
सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम् तुष्टाव परमेशानं पार्वती परमेश्वरम्
अनुगृह्य तदा देवीम् उवाच प्रहसन्निव कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः
क्रीडार्थं च सतां मध्ये सर्वदेवपतिर्भवः स्वयंवरे महादेवी तव दिव्यसुशोभने
आस्थाय रूपं यत्सौम्यं समेष्ये ऽहं सह त्वया इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा
जगामेष्टं तदा दिव्यं स्वपुरं प्रययौ च सा दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः
आलिङ्ग्याघ्राय सम्पूज्य पुत्रीं साक्षात्तपस्विनीम् दुहितुर्देवदेवेन न जानन्नभिमन्त्रितम्
स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत् अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः
शक्रश् च भगवान् वह्निर् भास्करो भग एव च त्वष्टार्यमा विवस्वांश् च यमो वरुण एव च
वायुः सोमस्तथेशानो रुद्राश् च मुनयस् तथा अश्विनौ द्वादशादित्या गन्धर्वा गरुडस् तथा
यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषोरगाः समुद्राश् च नदा वेदा मन्त्राः स्तोत्रादयः क्षणाः
नागाश् च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः त्रयस्त्रिंशच्च देवानां त्रयश् च त्रिशतं तथा
त्रयश् च त्रिसहस्रं च तथान्ये बहवः सुरा जग्मुर् गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्