देवः शाखो विशाखश् च नैगमेशश् च वीर्यवान् सेनापतिः कुमाराख्यः सर्वलोकनमस्कृतः
लीलयैव महासेनः प्रबलं तारकासुरम् बालो ऽपि विनिहत्यैको देवान् संतारयिष्यति
एवम् उक्तस् तदा तेन ब्रह्मणा परमेष्ठिना बृहस्पतिस् तथा सेन्द्रैर् देवैर् देवं प्रणम्य तम्
मेरोः शिखरमासाद्य स्मरं सस्मार सुव्रतः स्मरणाद्देवदेवस्य स्मरो ऽपि सह भार्यया
रत्या समं समागम्य नमस्कृत्य कृताञ्जलिः सशक्रमाह तं जीवं जगज्जीवो द्विजोत्तमाः
स्मृतो यद्भवता जीव सम्प्राप्तो ऽहं तवान्तिकम् ब्रूहि यन्मे विधातव्यं तमाह सुरपूजितः
तम् आह भगवाञ्छक्रः संभाव्य मकरध्वजम् शङ्करेणांबिकामद्य संयोजय यथासुखम्
तया स रमते येन भगवान् वृषभध्वजः तेन मार्गेण मार्गस्व पत्न्या रत्यानया सह
सो ऽपि तुष्टो महादेवः प्रदास्यति शुभां गतिम् विप्रयुक्तस्तया पूर्वं लब्ध्वा तां गिरिजामुमाम्
एवमुक्तो नमस्कृत्य देवदेवं शचीपतिम् देवदेवाश्रमं गन्तुं मतिं चक्रे तया सह
गत्वा तदाश्रये शंभोः सह रत्या महाबलः वसंतेन सहायेन देवं योक्तुमना भवत्
ततः सम्प्रेक्ष्य मदनं हसन् देवस् त्रियंबकः नयनेन तृतीयेन सावज्ञं तम् अवैक्षत
ततो ऽस्य नेत्रजो वह्निर् मदनं पार्श्वतः स्थितम् अदहत्तत्क्षणादेव ललाप करुणं रतिः
रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः कृपया परया प्राह कामपत्नीं निरीक्ष्य च
अमूर्तो ऽपि ध्रुवं भद्रे कार्यं सर्वं पतिस्तव रतिकाले ध्रुवे भद्रे करिष्यति न संशयः
यदा विष्णुश् च भविता वासुदेवो महायशाः शापाद्भृगोर्महातेजाः सर्वलोकहिताय वै
तदा तस्य सुतो यश् च स पतिस्ते भविष्यति सा प्रणम्य तदा रुद्रं कामपत्नी शुचिस्मिता
जगाम मदनं लब्ध्वा वसंतेन समन्विता
तपसा च महादेव्याः पार्वत्या वृषभध्वज प्रीतिश् च भगवाञ्छर्वो वचनाद्ब्रह्मणस्तदा
हिताय चाश्रमाणां च क्रीडार्थं भगवान्भवः तदा हैमवतीं देवीम् उपयेमे यथाविधि
जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः तपोवनं महादेव्याः पार्वत्याः पद्मसंभवः
प्रदक्षिणीकृत्य च तां देवीं स जगतो ऽरणीम् किम् अर्थं तपसा लोकान् संतापयसि शैलजे
त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विनाशय त्वं हि संधारयेल्लोकान् इमान् सर्वान् स्वतेजसा
सर्वदेवेश्वरः श्रीमान् सर्वलोकपतिर्भवः यस्य वै देवदेवस्य वयं किङ्करवादिनः
स एवं परमेशानः स्वयं च वरयिष्यति वरदे येन सृष्टासि न विना यस्त्वयांबिके
वर्तते नात्र संदेहस् तव भर्त्ता भविष्यति इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम्
गते पितामहे देवो भगवान् परमेश्वरः जगामानुग्रहं कर्तुं द्विजरूपेण चाश्रमम्
सा च दृष्ट्वा महादेवं द्विजरूपेण संस्थितम् प्रतिभाद्यैः प्रभुं ज्ञात्वा ननाम वृषभध्वजम्
सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम् तुष्टाव परमेशानं पार्वती परमेश्वरम्
अनुगृह्य तदा देवीम् उवाच प्रहसन्निव कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः