नारायणश् च भगवान् तुष्टाव च कृताञ्जलिः ब्रह्मा च मुनयः सर्वे पृथक्पृथगजोद्भवम्
तुष्टुवुर् देवदेवेशं नीलकण्ठं वृषध्वजम् तान् देवान् अनुगृह्यैव भवो ऽप्यन्तरधीयत
कथं हिमवतः पुत्री बभूवांबा सती शुभा कथं वा देवदेवेशम् अवाप पतिमीश्वरम्
सा मेनातनुम् आश्रित्य स्वेच्छयैव वराङ्गना तदा हैमवती जज्ञे तपसा च द्विजोत्तमाः
जातकर्मादिकाः सर्वाश् चकार च गिरीश्वरः द्वादशे च तदा वर्षे पूर्णे हैमवती शुभा
तपस्तेपे तया सार्धम् अनुजा च शुभानना अन्या च देवी ह्यनुजा सर्वलोके नमस्कृता
ऋषयश् च तदा सर्वे सर्वलोकमहेश्वरीम् तुष्टुवुस् तपसा देवीं समावृत्य समन्ततः
ज्येष्ठा ह्यपर्णा ह्यनुजा चैकपर्णा शुभानना तृतीया च वरारोहा तथा चैवैकपाटला
तपसा च महादेव्याः पार्वत्याः परमेश्वरः वशीकृतो महादेवः सर्वभूतपतिर्भवः
एतस्मिन्नेव काले तु तारको नाम दानवः तारात्मजो महातेजा बभूव दितिनन्दनः
तस्य पुत्रास्त्रयश्चापि तारकाक्षो महासुरः विद्युन्माली च भगवान् कमलाक्षश् च वीर्यवान्
पितामहस् तथा चैषां तारो नाम महाबलः तपसा लब्धवीर्यश् च प्रसादाद्ब्रह्मणः प्रभोः
सो ऽपि तारो महातेजास् त्रैलोक्यं सचराचरम् विजित्य समरे पूर्वं विष्णुं च जितवान् असौ
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् दिव्यं वर्षसहस्रं तु दिवारात्रम् अविश्रमम्
सरथं विष्णुमादाय चिक्षेप शतयोजनम् तारेण विजितः संख्ये दुद्राव गरुडध्वजः
तारो वराञ्छतगुणं लब्ध्वा शतगुणं बलम् पितामहाज्जगत्सर्वम् अवाप दितिनन्दनः
देवेन्द्रप्रमुखाञ्जित्वा देवान्देवेश्वरेश्वरः वारयामास तैर् देवान् सर्वलोकेषु मायया
देवताश् च सहेन्द्रेण तारकाद्भयपीडिताः न शान्तिं लेभिरे शूराः शरणं वा भयार्दिताः
तदामरपतिः श्रीमान् संनिपत्यामरप्रभुः उवाचाङ्गिरसं देवो देवानामपि संनिधौ
भगवंस्तारको नाम तारजो दानवोत्तमः तेन संनिहता युद्धे वत्सा गोपतिना यथा
भयात्तस्मान्महाभाग बृहद्युद्धे बृहस्पते अनिकेता भ्रमन्त्येते शकुन्ता इव पञ्जरे
अस्माकं यान्य् अमोघानि आयुधान्य् अङ्गिरो वर तानि मोघानि जायन्ते प्रभावादमरद्विषः
दशवर्षसहस्राणि द्विगुणानि बृहस्पते विष्णुना योधितो युद्धे तेनापि न च सूदितः
यस्तेनानिर्जितो युद्धे विष्णुना प्रभविष्णुना कथमस्मद्विधस्तस्य स्थास्यते समरे ऽग्रतः
एवम् उक्तस् तु शक्रेण जीवः सार्धं सुराधिपैः सहस्राक्षेण च विभुं सम्प्राप्याह कुशध्वजम्
सो ऽपि तस्य मुखाच्छ्रुत्वा प्रणयात्प्रणतार्तिहा देवैरशेषैः सेन्द्रैस्तु जीवमाह पितामहः
जाने वो ऽर्तिं सुरेन्द्राणां तथापि शृणु सांप्रतम् विनिन्द्य दक्षं या देवी सती रुद्राङ्गसंभवा
उमा हैमवती जज्ञे सर्वलोकनमस्कृता तस्याश्चैवेह रूपेण यूयं देवाः सुरोत्तमाः
विभोर्यतध्वमाक्रष्टुं रुद्रस्यास्य मनो महत् तयोर्योगेन सम्भूतः स्कन्दः शक्तिधरः प्रभुः
षडास्यो द्वादशभुजः सेनानीः पावकिः प्रभुः स्वाहेयः कार्तिकेयश् च गाङ्गेयः शरधामजः