हिरण्यगर्भं तं देवो जायमानमपश्यत सो ऽपि रुद्रं महादेवं ब्रह्मापश्यत शङ्करम्
तं दृष्ट्वा संस्थितं देवम् अर्धनारीश्वरं प्रभुम् तुष्टाव वाग्भिर् इष्टाभिर् वरदं वारिजोद्भवः
विभजस्वेति विश्वेशं विश्वात्मानमजो विभुः ससर्ज देवीं वामाङ्गात् पत्नीं चैवात्मनः समाम्
श्रद्धा ह्यस्य शुभा पत्नी ततः पुंसः पुरातनी सैवाज्ञया विभोर्देवी दक्षपुत्री बभूव ह
सतीसंज्ञा तदा सा वै रुद्रमेवाश्रिता पतिम् दक्षं विनिन्द्य कालेन देवी मैना ह्यभूत्पुनः
नारदस्यैव दक्षो ऽपि शापादेवं विनिन्द्य च अवज्ञादुर्मदो दक्षो देवदेवमुमापतिम्
अनादृत्य कृतिं ज्ञात्वा सती दक्षेण तत्क्षणात् भस्मीकृत्वात्मनो देहं योगमार्गेण सा पुनः
बभूव पार्वती देवी तपसा च गिरेः प्रभोः ज्ञात्वैतद्भगवान् भर्गो ददाह रुषितः प्रभुः
दक्षस्य विपुलं यज्ञं च्यावनेर् वचनादपि च्यवनस्य सुतो धीमान् दधीच इति विश्रुतः
विजित्य विष्णुं समरे प्रसादात् त्र्यंबकस्य च विष्णुना लोकपालांश् च शशाप च मुनीश्वरः
रुद्रस्य क्रोधजेनैव वह्निना हविषा सुराः विनाशो वै क्षणादेव मायया शङ्करस्य वै
विजित्य विष्णुना सार्धं भगवान्परमेश्वरः सर्वान्दधीचवचनात् कथं भेजे महेश्वरः
दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान् ददाह भगवान् रुद्रः सर्वान् मुनिगणान् अपि
भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः
सो ऽसृजद् वीरभद्रश् च गणेशान्रोमजाञ्छुभान् गणेश्वरैः समारुह्य रथं भद्रः प्रतापवान्
गन्तुं चक्रे मतिं यस्य सारथिर्भगवानजः गणेश्वराश् च ते सर्वे विविधायुधपाणयः
विमानैर्विश्वतो भद्रैस् तमन्वयुरथो सुराः हिमवच्छिखरे रम्ये हेमशृङ्गे सुशोभने
यज्ञवाटस् तथा तस्य गङ्गाद्वारसमीपतः तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः
दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना तदोत्पातो बभूवाथ लोकानां भयशंसनः
पर्वताश् च व्यशीर्यन्त प्रचकम्पे वसुंधरा मरुतश् चाप्य् अघूर्णन्त चुक्षुभे मकरालयः
अग्नयो नैव दीप्यन्ति न च दीप्यति भास्करः ग्रहाश् च न प्रकाश्यन्ते न देवा न च दानवाः
ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः रोमजैः सहितो भद्रः कालाग्निरिवचापरः
उवाच भद्रो भगवान् दक्षं चामिततेजसम् संपर्कादेव दक्षाद्य मुनीन्देवान् पिनाकिना
दग्धुं संप्रेषितश् चाहं भवन्तं समुनीश्वरैः इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः
गणेश्वराश् च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः
गृहीत्वा गणपाः सर्वान् गङ्गास्रोतसि चिक्षिपुः वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम्
व्यष्टम्भयद् अदीनात्मा तथान्येषां दिवौकसाम् भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया
निहत्य मुष्टिना दन्तान् पूष्णश्चैवं न्यपातयत् तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया
घर्षयामास भगवान् वीरभद्रः प्रतापवान् चिछेद च शिरस्तस्य शक्रस्य भगवान्प्रभोः
वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया जघान मूर्ध्नि पादेन वीरभद्रो महाबलः