निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः एकज्योतिर् निरातङ्को नरो नारायणप्रियः
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः
निरवद्यपदोपायो विद्याराशिरविक्रमः प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः परमार्थगुरुर् दृष्टिर् गुरुर् आश्रितवत्सलः
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलंबनः एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्
स्नापयामास च विभुः पूजयामास पङ्कजैः परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः
गोपयामास कमलं तदैकं भुवनेश्वरः हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत्
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् पूजयामास भावेन नाम्ना तेन जगद्गुरुम्
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् तस्मादवतताराशु मण्डलात्पावकस्य च
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम्
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् वरादभयहस्तं च द्वीपिचर्मोत्तरीयकम्
इत्थंभूतं तदा दृष्ट्वा भवं भस्मविभूषितम् हृष्टो नमश्चकाराशु देवदेवं जनार्दनः
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् चचाल ब्रह्मभुवनं चकम्पे च वसुंधरा
ददाह तेजस्तच्छंभोः प्रान्तं वै शतयोजनम् अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले
तदा प्राह महादेवः प्रहसन्निव शङ्करः सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम्
ज्ञातं मयेदमधुना देवकार्यं जनार्दन सुदर्शनाख्यं चक्रं च ददामि तव शोभनम्
यद्रूपं भवता दृष्टं सर्वलोकभयंकरम् हिताय तव यत्नेन तव भावाय सुव्रत
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् शान्तस्य चास्त्रं शान्तः स्याच् छान्तेनास्त्रेण किं फलम्
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् किमायुधेन कार्यं वै योद्धुं देवारिसूदन
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे
अकालिके त्वधर्मे च अनर्थे वारिसूदन एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम्
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम्
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह
वरदो ऽहं वरश्रेष्ठ वरान्वरय चेप्सितान् भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम्
नान्यमिच्छामि भक्तानाम् आर्तयो नास्ति यत्प्रभो तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः प्राह चैवं महादेवः परमात्मानमच्युतम्
मयि भक्तश् च वन्द्यश् च पूज्यश्चैव सुरासुरैः भविष्यसि न संदेहो मत्प्रसादात्सुरोत्तम
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना मातरं पितरं दक्षं भविष्यति सुरेश्वरी