वरशीलो वरतुलो मानो मानधनो मयः ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः कैलासशिखरावासी सर्वावासी सतां गतिः
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता भूतालयो भूतपतिर् भूतिदो भुवनेश्वरः
संयोगी योगविद्ब्रह्म ब्रह्मण्यो ब्राह्मणप्रियः देवप्रियो देवनाथो देवज्ञो देवचिन्तकः
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः अर्थो ऽनर्थो महाकोशः परकार्यैकपण्डितः
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः
अकंपितो गुणग्राही नैकात्मा नैककर्मकृत् सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणो ऽनलः
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः अपराजितः सर्वसहो विदग्धः सर्ववाहनः
अधृतः स्वधृतः साध्यः पूर्वमूर्तिर्यशोधरः वराहशृङ्गधृग् वायुर् बलवान् एकनायकः
श्रुतिप्रकाशः श्रुतिमान् एकबन्धुर् अनेकधृक् श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः
भूशयो भूतिकृद्भूतिर् भूषणो भूतवाहनः अकायो भक्तकायस्थः कालज्ञानी कलावपुः
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः परार्थवृत्तिर् वरदो विविक्तः श्रुतिसागरः
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली मेखली कवची खड्गी मायी संसारसारथिः
अमृत्युः सर्वदृक् सिंहस् तेजोराशिर् महामणिः असंख्येयो ऽप्रमेयात्मा वीर्यवान् कार्यकोविदः
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः
सुरेशः शरणं सर्वः शब्दब्रह्म सतां गतिः कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः द्युमणिस् तरणिर् धन्यः सिद्धिदः सिद्धिसाधनः
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः एकज्योतिर् निरातङ्को नरो नारायणप्रियः
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः
निरवद्यपदोपायो विद्याराशिरविक्रमः प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः परमार्थगुरुर् दृष्टिर् गुरुर् आश्रितवत्सलः
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलंबनः एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्
स्नापयामास च विभुः पूजयामास पङ्कजैः परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः
गोपयामास कमलं तदैकं भुवनेश्वरः हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत्
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् पूजयामास भावेन नाम्ना तेन जगद्गुरुम्
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् तस्मादवतताराशु मण्डलात्पावकस्य च
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम्