सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् पद्मासनः परं ज्योतिः परावरं परं फलम्
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः परावरज्ञो बीजेशः सुमुखः सुमहास्वनः
देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरमहाश्रयः
देवादिदेवो देवर्षिदेवासुरवरप्रदः देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः
सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसंभवः ईड्यो ऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः
जयस्तंभो विशिष्टम्भो नरसिंहनिपातनः ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः
स्ववशः सवशः स्वर्गः स्वरः स्वरमयस्वनः बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः
दंभो ऽदम्भो महादंभः सर्वभूतमहेश्वरः श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः
लोकोत्तरस्फुटालोकस् त्र्यंबको नागभूषणः अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः
वीतदोषो ऽक्षयगुणो दक्षारिः पूषदन्तहृत् धूर्जटिः खण्डपरशुः सकलो निष्कलो ऽनघः
आधारः सकलाधारः पाण्डुराभो मृडो नटः पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः
मानी मान्यो महाकालः सद्भूतिः सत्परायणः चन्द्रसंजीवनः शास्ता लोकगूढो ऽमराधिपः
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः
तेजोमयो द्युतिधरो लोकमायो ऽग्रणीर् अणुः शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः तुम्बवीणी महाकायो विशोकः शोकनाशनः
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशांपतिः
वरशीलो वरतुलो मानो मानधनो मयः ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः कैलासशिखरावासी सर्वावासी सतां गतिः
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता भूतालयो भूतपतिर् भूतिदो भुवनेश्वरः
संयोगी योगविद्ब्रह्म ब्रह्मण्यो ब्राह्मणप्रियः देवप्रियो देवनाथो देवज्ञो देवचिन्तकः
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः अर्थो ऽनर्थो महाकोशः परकार्यैकपण्डितः
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः
अकंपितो गुणग्राही नैकात्मा नैककर्मकृत् सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणो ऽनलः
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः अपराजितः सर्वसहो विदग्धः सर्ववाहनः