उदारकीर्तिर् उद्योगी सद्योगी सदसन्मयः नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः
पवित्रपाणिः पापारिर् मणिपूरो मनोगतिः हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः
विष्णुर्ग्रहपतिः कृष्णः समर्थो ऽनर्थनाशनः अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः जगद्धितैषी सुगतः कुमारः कुशलागमः
हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः मातामहो मातरिश्वा नभस्वान् नागहारधृक्
पुलस्त्यः पुलहो ऽगस्त्यो जातूकर्ण्यः पराशरः निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः
आत्मभूर् अनिरुद्धो ऽत्रिज्ञानमूर्तिर् महायशाः लोकचूडामणिर्वीरः चण्डसत्यपराक्रमः
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः अलंकरिष्णुस् त्वचलो रोचिष्णुर्विक्रमोत्तमः
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः असंसृष्टो ऽतिथिः शक्रः प्रमाथी पापनाशनः
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः जर्यो जराधिशमनो लोहितश् च तनूनपात्
पृषदश्वो नभोयोनिः सुप्रतीकस् तमिस्रहा निदाघस्तपनो मेघः पक्षः परपुरंजयः
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः
अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः पावनः पुरुजिच्छक्रस् त्रिविद्यो नरवाहनः
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः तेजोनिधिर् ज्ञाननिधिर् विपाको विघ्नकारकः
अधरो ऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः शैलो नगस्तनुर्देहो दानवारिररिन्दमः
चारुधीर् जनकश्चारुविशल्यो लोकशल्यकृत् चतुर्वेदश्चतुर्भावश् चतुरश्चतुरप्रियः
आम्नायो ऽथ समाम्नायस् तीर्थदेवशिवालयः बहुरूपो महारूपः सर्वरूपश् चराचरः
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः पिङ्गलाक्षो ऽथ हर्यक्षो नीलग्रीवो निरामयः
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् पद्मासनः परं ज्योतिः परावरं परं फलम्
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः परावरज्ञो बीजेशः सुमुखः सुमहास्वनः
देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरमहाश्रयः
देवादिदेवो देवर्षिदेवासुरवरप्रदः देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः
सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसंभवः ईड्यो ऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः
जयस्तंभो विशिष्टम्भो नरसिंहनिपातनः ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः
स्ववशः सवशः स्वर्गः स्वरः स्वरमयस्वनः बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः
दंभो ऽदम्भो महादंभः सर्वभूतमहेश्वरः श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः