उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत् पातकादर्धमेव स्याद् उपपातकिनां स्मृतम्
तदर्धं केवले पापे नात्र कार्या विचारणा ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च
कृत्वा च गुरुतल्पं च पापकृद्ब्राह्मणो यदि रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः
गन्धद्वारेति तस्या वै गोमयं स्वस्थम् आहरेत् तेजो ऽसि शुक्तम् इत्याज्यं कापिलं संहरेद्बुधः
आप्यायस्वेति च क्षीरं दधिक्राव्णेति चाहरेत् गव्यं दधि नवं साक्षात् कापिलं वै पितामह
देवस्य त्वेति मन्त्रेण संग्रहेद्वै कुशोदकम् एकस्थं हेमपात्रे वा कृत्वाघोरेण राजते
ताम्रे वा पद्मपात्रे वा पालाशे वा दले शुभे सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैव काञ्चनम्
जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः घृतेन चरुणा चैव समिद्भिश् च तिलैस् तथा
यवैश् च व्रीहिभिश्चैव जुहुयाद्वै पृथक्पृथक् प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु
हुत्वाघोरेण देवेशं स्नात्वाघोरेण वै द्विजाः अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च
अहोरात्रोषितः स्नातः पिबेत्कूर्चं शिवाग्रतः ब्राह्मं ब्रह्मजपं कुर्याद् आचम्य च यथाविधि
एवं कृत्वा कृतघ्नो ऽपि ब्रह्महा भ्रूणहा तथा वीरहा गुरुघाती च मित्रविश्वासघातकः
स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा मद्यपो वृषलीसक्तः परदारविधर्षकः
ब्रह्मस्वहा तथा गोघ्नो मातृहा पितृहा तथा देवप्रच्यावकश्चैव लिङ्गप्रध्वंसकस् तथा
तथान्यानि च पापानि मानसानि द्विजो यदि वाचिकानि तथान्यानि कायिकानि सहस्रशः
कृत्वा विमुच्यते सद्यो जन्मान्तरशतैरपि एतद्रहस्यं कथितम् अघोरेशप्रसंगतः
तस्माज्जपेद्द्विजो नित्यं सर्वपापविशुद्धये
अथान्यो ब्रह्मणः कल्पो वर्तते मुनिपुङ्गवाः विश्वरूप इति ख्यातो नामतः परमाद्भुतः
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः
प्रादुर्भूता महानादा विश्वरूपा सरस्वती विश्वमाल्यांबरधरा विश्वयज्ञोपवीतिनी
विश्वोष्णीषा विश्वगन्धा विश्वमाता महोष्ठिका तथाविधं स भगवान् ईशानं परमेश्वरम्
शुद्धस्फटिकसंकाशं सर्वाभरणभूषितम् अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ओमीशान नमस्ते ऽस्तु महादेव नमो ऽस्तु ते
नमो ऽस्तु सर्वविद्यानाम् ईशान परमेश्वर नमो ऽस्तु सर्वभूतानाम् ईशान वृषवाहन
ब्रह्मणो ऽधिपते तुभ्यं ब्रह्मणे ब्रह्मरूपिणे नमो ब्रह्माधिपतये शिवं मे ऽस्तु सदाशिव
ओङ्कारमूर्ते देवेश सद्योजात नमोनमः प्रपद्ये त्वां प्रपन्नो ऽस्मि सद्योजाताय वै नमः
अभवे च भवे तुभ्यं तथा नातिभवे नमः भवोद्भव भवेशान मां भजस्व महाद्युते
वामदेव नमस्तुभ्यं ज्येष्ठाय वरदाय च नमो रुद्राय कालाय कलनाय नमो नमः
नमो विकरणायैव कालवर्णाय वर्णिने बलाय बलिनां नित्यं सदा विकरणाय ते
बलप्रमथनायैव बलिने ब्रह्मरूपिणे सर्वभूतेश्वरेशाय भूतानां दमनाय च