योगी योग्यो महारेताः सिद्धः सर्वादिर् अग्निदः वसुर्वसुमनाः सत्यः सर्वपापहरो हरः
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः
भ्राजिष्णुर् भोजनं भोक्ता लोकनेता दुराधरः अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः
कालयोगी महानादो महोत्साहो महाबलः महाबुद्धिर् महावीर्यो भूतचारी पुरन्दरः
निशाचरः प्रेतचारी महाशक्तिर् महाद्युतिः अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसंप्लवः
युगादिकृद् युगावर्तो गंभीरो वृषवाहनः इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः
अपां निधिरधिष्ठानं विजयो जयकालवित् प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः
विरोचनः सुरगणो विद्येशो विबुधाश्रयः बालरूपो बलोन्माथी विवर्तो गहनो गुरुः
करणं कारणं कर्ता सर्वबन्धविमोचनः विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः
वीरेश्वरो वीरभद्रो वीरहा वीरभृद् विराट् वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः
आज्ञाधरस्त्रिशूली च शिपिविष्टः शिवालयः वालखिल्यो महाचापस् तिग्मांशुर् निधिर् अव्ययः
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः मघवान्कौशिको गोमान् विश्रामः सर्वशासनः
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी
परमार्थः परमयः शम्बरो व्याघ्रको ऽनलः रुचिर् वररुचिर् वन्द्यो वाचस्पतिरहर्पतिः
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः युक्तिरुन्नतकीर्तिश् च शान्तरागः पराजयः
कैलासपतिकामारिः सविता रविलोचनः विद्वत्तमो वीतभयो विश्वहर्ता निवारितः
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो ऽभयः अनादिर्भूर्भुवोलक्ष्मीः किरीटी त्रिदशाधिपः
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः
विशिष्टः काश्यपो भानुर् भीमो भीमपराक्रमः प्रणवः सप्तधाचारो महाकायो महाधनुः
जन्माधिपो महादेवः सकलागमपारगः तत्त्वातत्त्वविवेकात्मा विभूष्णुर् भूतिभूषणः
ऋषिर्ब्राह्मणविज्जिष्णुर् जन्ममृत्युजरातिगः यज्ञो यज्ञपतिर्यज्वा यज्ञान्तो ऽमोघविक्रमः
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः पञ्चब्रह्मसमुत्पत्तिर् विश्वेशो विमलोदयः
आत्मयोनिर् अनाद्यन्तः षड्विंशत्सप्तलोकधृक् गायत्रीवल्लभः प्रांशुर् विश्वावासः प्रभाकरः
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा अमोघो ऽरिष्टमथनो मुकुन्दो विगतज्वरः
स्वयंज्योतिर् अनुज्योतिर् आत्मज्योतिर् अचञ्चलः पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस् त्रयीतनुः
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिर् उपप्लवः भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः