पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा रथाङ्गं सुशितं घोरं तेन तान् हन्तुम् अर्हसि
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ततो निशम्य तेषां वै वचनं वारिजेक्षणः
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम् भोभो देवा महादेवं सर्वैर् देवैः सनातनैः
सम्प्राप्य सांप्रतं सर्वं करिष्यामि दिवौकसाम् देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् सर्वान्धुन्धुमुखान्दैत्यान् अष्टषष्टिशतान् सुरान्
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् एवम् उक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे
मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः
स्नाप्य सम्पूज्य गन्धाद्यैर् ज्वालाकारं मनोरमम् तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् पूजयामास च शिवं प्रणवाद्यं नमो ऽन्तकम्
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् प्रतिनाम स पद्मेन पूजयामास शङ्करम्
अग्नौ च नामभिर् देवं भवाद्यैः समिदादिभिः स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम्
तुष्टाव च पुनः शंभुं भवाद्यैर्भवमीश्वरम् भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः
अर्थितव्यः सदाचारः सर्वशंभुर्महेश्वरः ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात्
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः गङ्गाधरः शूलधरः परार्थैकप्रयोजनः
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः चन्द्रापीडश्चन्द्रमौलिर् विद्वान्विश्वामरेश्वरः
वेदान्तसारसंदोहः कपाली नीललोहितः ध्यानाधारोपरिच्छेद्यो गौरीभर्ता गणेश्वरः
अष्टमूर्तिर्विश्वमूर्तिस् त्रिवर्गः स्वर्गसाधनः ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः
वामदेवो महादेवः पाण्डुः परिदृढो दृढः विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः
सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः
उन्मत्तवेषश् चक्षुष्यो दुर्वासाः स्मरशासनः दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् उग्रः पशुपतिस् तार्क्ष्यः प्रियभक्तः प्रियंवदः
दाता दयाकरो दक्षः कपर्दी कामशासनः श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः
लोककर्ता भूतपतिर् महाकर्ता महौषधी उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी सोमपो ऽमृतपः सोमो महानीतिर्महामतिः
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः लोककारो वेदकारः सूत्रकारः सनातनः
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः पिनाकपाणिर् भूदेवः स्वस्तिदः स्वस्तिकृत्सदा