द्वे तनू तव रुद्रस्य वेदज्ञा ब्राह्मणा विदुः घोराप्यन्या शिवाप्यन्या ते प्रत्येकमनेकधा
इहास्मान्पाहि भगवन् नित्याहतमहाबलः भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा
ब्रह्मविष्ण्विन्द्रचन्द्रादि वयं च प्रमुखाः सुराः सुरासुराः सम्प्रसूतास् त्वत्तः सर्वे महेश्वर
ब्रह्मा च इन्द्रो विष्णुश् च यमाद्या न सुरासुरान् ततो निगृह्य च हरिं सिंह इत्य् उपचेतसम्
यतो बिभर्षि सकलं विभज्य तनुमष्टधा अतो ऽस्मान् पाहि भगवन् सुरान् दानैर् अभीप्सितैः
उवाच तान् सुरान्देवो महर्षींश् च पुरातनान् यथा जले जलं क्षिप्तं क्षीरं क्षीरे घृतं घृते
एक एव तदा विष्णुः शिवलीनो न चान्यथा एष एव नृसिंहात्मा सदर्पश् च महाबलः
जगत्संहारकारेण प्रवृत्तो नरकेसरी याजनीयो नमस्तस्मै मद्भक्तिसिद्धिकाङ्क्षिभिः
एतावदुक्त्वा भगवान् वीरभद्रो महाबलः अपश्यन् सर्वभूतानां तत्रैवान्तरधीयत
नृसिंहकृत्तिवसनस् तदाप्रभृति शङ्करः वक्त्रं तन्मुण्डमालायां नायकत्वेन कल्पितम्
ततो देवा निरातङ्काः कीर्तयन्तः कथामिमाम् विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम्
य इदं परमाख्यानं पुण्यं वेदैः समन्वितम् पठित्वा शृणुते चैव सर्वदुःखविनाशनम्
धन्यं यशस्यम् आयुष्यम् आरोग्यं पुष्टिवर्धनम् सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम्
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् अरिचक्रप्रशमनं सर्वाधिप्रविनाशनम्
ततो दुःस्वप्नशमनं सर्वभूतनिवारणम् विषग्रहक्षयकरं पुत्रपौत्रादिवर्धनम्
योगसिद्धिप्रदं सम्यक् शिवज्ञानप्रकाशकम् शेषलोकस्य सोपानं वाञ्छितार्थैकसाधनम्
विष्णुमायानिरसनं देवतापरमार्थदम् वाञ्छासिद्धिप्रदं चैव ऋद्धिप्रज्ञादिसाधनम्
इदं तु शरभाकारं परं रूपं पिनाकिनः प्रकाशितव्यं भक्तेषु चिरेषूद्यमितेषु च
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च
पठेत्प्रतिष्ठाकालेषु शिवसन्निधिकारणम् चोरव्याघ्राहिसिंहान्तकृतो राजभयेषु च
अत्रान्योत्पातभूकम्पदवाग्निपांसुवृष्टिषु उल्कापाते महावाते विना वृष्ट्यातिवृष्टिषु
अतस्तत्र पठेद्विद्वाञ् छिवभक्तो दृढव्रतः यः पठेच्छृणुयाद्वापि स्तवं सर्वमनुत्तमम्
स रुद्रत्वं समासाद्य रुद्रस्यानुचरो भवेत्
जलन्धरं जटामौलिः पुरा जम्भारिविक्रमम् कथं जघान भगवान् भगनेत्रहरो हरः
वक्तुमर्हसि चास्माकं रोमहर्षण सुव्रत जलन्धर इति ख्यातो जलमण्डलसंभवः
आसीदन्तकसंकाशस् तपसा लब्धविक्रमः तेन देवाः सगन्धर्वाः सयक्षोरगराक्षसाः
निर्जिताः समरे सर्वे ब्रह्मा च भगवानजः जित्वैव देवसंघातं ब्रह्माणं वै जलन्धरः
जगाम देवदेवेशं विष्णुं विश्वहरं गुरुम् तयोः समभवद्युद्धं दिवारात्रम् अविश्रमम्
जलन्धरेशयोस्तेन निर्जितो मधुसूदनः जलन्धरो ऽपि तं जित्वा देवदेवं जनार्दनम्
प्रोवाचेदं दितेः पुत्रान् न्यायधीर्जेतुमीश्वरम् सर्वे जिता मया युद्धे शङ्करो ह्यजितो रणे