तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः नमो रुद्राय शर्वाय महाग्रासाय विष्णवे
नम उग्राय भीमाय नमः क्रोधाय मन्यवे नमो भवाय शर्वाय शङ्कराय शिवाय ते
कालकालाय कालाय महाकालाय मृत्यवे वीराय वीरभद्राय क्षयद्वीराय शूलिने
महादेवाय महते पशूनां पतये नमः एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने
नमो ऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे पराय परमेशाय परात्परतराय ते
परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे
कैवर्ताय किराताय महाव्याधाय शाश्वते भैरवाय शरण्याय महाभैरवरूपिणे
नमो नृसिंहसंहर्त्रे कामकालपुरारये महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे
त्र्यंबकाय त्र्यक्षराय शिपिविष्टाय मीढुषे मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे महाघ्राणाय जिह्वाय प्राणापानप्रवर्तिने
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने संसाराय प्रवाहाय महायन्त्रप्रवर्तिने
नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे वरदायावताराय सर्वकारणहेतवे
कपालिने करालाय पतये पुण्यकीर्त्तये अमोघायाग्निनेत्राय लकुलीशाय शंभवे
भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे मेघवाहाय देवाय पार्वतीपतये नमः
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे
वरदायैकपादाय नमश्चन्द्रार्धमौलिने नमस्ते ऽध्वरराजाय वयसां पतये नमः
योगीश्वराय नित्याय सत्याय परमेष्ठिने सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते
एकद्वित्रिचतुःपञ्चकृत्वस् ते ऽस्तु नमोनमः दशकृत्वस्तु साहस्रकृत्वस्ते च नमोनमः
नमो ऽपरिमितं कृत्वा-नन्तकृत्वो नमोनमः नमोनमो नमो भूयः पुनर्भूयो नमोनमः
नाम्नामष्टशतेनैवं स्तुत्वामृतमयेन तु पुनस्तु प्रार्थयामास नृसिंहः शरभेश्वरम्
यदा यदा ममाज्ञानम् अत्यहङ्कारदूषितम् तदा तदापनेतव्यं त्वयैव परमेश्वर
एवं विज्ञापयन्प्रीतः शङ्करं नरकेसरी नन्वशक्तो भवान् विष्णो जीवितान्तं पराजितः
तद्वक्त्रशेषमात्रान्तं कृत्वा सर्वस्य विग्रहम् शुक्तिशित्यं तदा मङ्गं वीरभद्रः क्षणात्ततः
अथ ब्रह्मादयः सर्वे वीरभद्र त्वया दृशा जीविताः स्मो वयं देवाः पर्जन्येनेव पादपाः
यस्य भीषा दहत्यग्निर् उदेति च रविः स्वयम् वातो वाति च सो ऽसि त्वं मृत्युर्धावति पञ्चमः
यदव्यक्तं परं व्योम कलातीतं सदाशिवम् भगवंस्त्वामेव भवं वदन्ति ब्रह्मवादिनः
के वयमेव धातुक्ये वेदने परमेश्वरः न विद्धि परमं धाम रूपलावण्यवर्णने
उपसर्गेषु सर्वेषु त्रायस्वास्मान् गणाधिप एकादशात्मन् भगवान् वर्तते रूपवान् हरः
ईदृशान् ते ऽवताराणि दृष्ट्वा शिव बहूंस्तमः कदाचित् संदिहेन् नास्मांस् त्वच्चिन्तास्तमया तथा
गुञ्जागिरिवरतटा-मितरूपाणि सर्वशः अभ्यसंहर गम्यं ते न नीतव्यं परापरा