प्रददौ दर्शनं देवो ह्य् अघोरो घोरविक्रमः अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः
चत्वारस्तु महात्मानः संबभूवुः कुमारकाः कृष्णः कृष्णशिखश्चैव कृष्णास्यः कृष्णवस्त्रधृक्
ततो वर्षसहस्रं तु योगतः परमेश्वरम् उपासित्वा महायोगं शिष्येभ्यः प्रददुः पुनः
योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम् अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम्
एवमेतेन योगेन ये ऽपि चान्ये मनीषिणः चिन्तयन्ति महादेवं गन्तारो रुद्रमव्ययम्
ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम्
अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः अनेनैव तु रूपेण संहरामि न संशयः
ब्रह्महत्यादिकान् घोरांस् तथान्यानपि पातकान् हीनांश्चैव महाभाग तथैव विविधान्यपि
उपपातकमप्येवं तथा पापानि सुव्रत मानसानि सुतीक्ष्णानि वाचिकानि पितामह
कायिकानि सुमिश्राणि तथा प्रासंगिकानि च बुद्धिपूर्वं कृतान्येव सहजागन्तुकानि च
मातृदेहोत्थितान्येवं पितृदेहे च पातकम् संहरामि न संदेहः सर्वं पातकजं विभो
लक्षं जप्त्वा ह्यघोरेभ्यो ब्रह्महा मुच्यते प्रभो तदर्धं वाचिके वत्स तदर्धं मानसे पुनः
चतुर्गुणं बुद्धिपूर्वे क्रोधादष्टगुणं स्मृतम् वीरहा लक्षमात्रेण भ्रूणहा कोटिमभ्यसेत्
मातृहा नियुतं जप्त्वा शुध्यते नात्र संशयः गोघ्नश्चैव कृतघ्नश् च स्त्रीघ्नः पापयुतो नरः
अयुताघोरमभ्यस्य मुच्यते नात्र संशयः सुरापो लक्षमात्रेण बुद्ध्याबुद्ध्यापि वै प्रभो
मुच्यते नात्र संदेहस् तदर्धेन च वारुणीम् अस्नाताशी सहस्रेण अजपी च तथा द्विजः
अहुताशी सहस्रेण अदाता च विशुध्यति ब्राह्मणस्वापहर्ता च स्वर्णस्तेयी नराधमः
नियुतं मानसं जप्त्वा मुच्यते नात्र संशयः गुरुतल्परतो वापि मातृघ्नो वा नराधमः
ब्रह्मघ्नश् च जपेदेवं मानसं वै पितामह संपर्कात्पापिनां पापं तत्समं परिभाषितम्
तथाप्ययुतमात्रेण पातकाद्वै प्रमुच्यते संसर्गात्पातकी लक्षं जपेद्वै मानसं धिया
उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत् पातकादर्धमेव स्याद् उपपातकिनां स्मृतम्
तदर्धं केवले पापे नात्र कार्या विचारणा ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च
कृत्वा च गुरुतल्पं च पापकृद्ब्राह्मणो यदि रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः
गन्धद्वारेति तस्या वै गोमयं स्वस्थम् आहरेत् तेजो ऽसि शुक्तम् इत्याज्यं कापिलं संहरेद्बुधः
आप्यायस्वेति च क्षीरं दधिक्राव्णेति चाहरेत् गव्यं दधि नवं साक्षात् कापिलं वै पितामह
देवस्य त्वेति मन्त्रेण संग्रहेद्वै कुशोदकम् एकस्थं हेमपात्रे वा कृत्वाघोरेण राजते
ताम्रे वा पद्मपात्रे वा पालाशे वा दले शुभे सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैव काञ्चनम्
जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः घृतेन चरुणा चैव समिद्भिश् च तिलैस् तथा
यवैश् च व्रीहिभिश्चैव जुहुयाद्वै पृथक्पृथक् प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु
हुत्वाघोरेण देवेशं स्नात्वाघोरेण वै द्विजाः अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च