जगाम रंहसा तत्र यत्रास्ते नरकेसरी ततस्तं बोधयामास वीरभद्रो हरो हरिम्
उवाच वाक्यमीशानः पिता पुत्रमिवौरसम् जगत्सुखाय भगवन्न् अवतीर्णो ऽसि माधव
स्थित्यर्थेन च युक्तो ऽसि परेण परमेष्ठिना जन्तुचक्रं भगवता रक्षितं मत्स्यरूपिणा
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा बिभर्षि कूर्मरूपेण वाराहेणोद्धृता मही
अनेन हरिरूपेण हिरण्यकशिपुर्हतः वामनेन बलिर्बद्धस् त्वया विक्रमता पुनः
त्वम् एव सर्वभूतानां प्रभावः प्रभुर् अव्ययः यदा यदा हि लोकस्य दुःखं किंचित् प्रजायते
तदा तदावतीर्णस्त्वं करिष्यसि निरामयम् नाधिकस्त्वत्समो ऽप्यस्ति हरे शिवपरायण
त्वया धर्माश् च वेदाश् च शुभे मार्गे प्रतिष्ठिताः यदर्थम् अवतारो ऽयं निहतः सो ऽपि केशव
अत्यन्तघोरं भगवन् नरसिंह वपुस्तव उपसंहर विश्वात्मंस् त्वमेव मम संनिधौ
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ततो ऽधिकं महाघोरं कोपं प्रज्वालयद्धरिः
आगतो ऽसि यतस्तत्र गच्छ त्वं मा हितं वद इदानीं संहरिष्यामि जगदेतच्चराचरम्
संहर्तुर् न हि संहारः स्वतो वा परतो ऽपि वा शासितं मम सर्वत्र शास्ता को ऽपि न विद्यते
मत्प्रसादेन सकलं समर्यादं प्रवर्तते अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः
यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम्
देवतापरमार्थज्ञा ममैव परमं विदुः मदंशाः शक्तिसम्पन्ना ब्रह्मशक्रादयः सुराः
मन्नाभिपङ्कजाज्जातः पुरा ब्रह्मा चतुर्मुखः तल्ललाटसमुत्पन्नो भगवान्वृषभध्वजः
रजसाधिष्ठितः स्रष्टा रुद्रस्तामस उच्यते अहं नियन्ता सर्वस्य मत्परं नास्ति दैवतम्
विश्वाधिकः स्वतन्त्रश् च कर्ता हर्ताखिलेश्वरः इदं तु मत्परं तेजः कः पुनः श्रोतुमिच्छति
अतो मां शरणं प्राप्य गच्छ त्वं विगतज्वरः अवेहि परमं भावम् इदं भूतमहेश्वरः
कालो ऽस्म्यहं कालविनाशहेतुर् लोकान् समाहर्तुम् अहं प्रवृत्तः मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः
साहङ्कारमिदं श्रुत्वा हरेर् अमितविक्रमः विहस्योवाच सावज्ञं ततो विस्फुरिताधरः
किं न जानासि विश्वेशं संहर्तारं पिनाकिनम् असद्वादो विवादश् च विनाशस्त्वयि केवलः
तवान्योन्यावताराणि कानि शेषाणि सांप्रतम् कृतानि येन केनापि कथाशेषो भविष्यति
दोषं त्वं पश्य एतत्त्वम् अवस्थामीदृशीं गतः तेन संहारदक्षेण क्षणात्संक्षयमेष्यसि
प्रकृतिस्त्वं पुमान् रुद्रस् त्वयि वीर्यं समाहितम् त्वन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः
सृष्ट्यर्थेन जगत्पूर्वं शङ्करं नीललोहितम् ललाटे चिन्तयामास तपस्युग्रे व्यवस्थितः
तल्ललाटादभूच्छंभोः सृष्ट्यर्थं तन्न दूषणम् अंशो ऽहं देवदेवस्य महाभैरवरूपिणः
त्वत्संहारे नियुक्तो ऽस्मि विनयेन बलेन च एवं रक्षो विदार्यैव त्वं शक्तिकलया युतः
अहङ्कारावलेपेन गर्जसि त्वमतन्द्रितः उपकारो ह्यसाधूनाम् अपकाराय केवलम्
यदि सिंह महेशानं स्वपुनर्भूत मन्यसे न त्वं स्रष्टा न संहर्ता न स्वतन्त्रो हि कुत्रचित्