सदसद्व्यक्तिहीनाय महतः कारणाय ते नित्याय विश्वरूपाय जायमानाय ते नमः
जाताय बहुधा लोके प्रभूताय नमोनमः रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे
कालाय कालरूपाय नमः कालाङ्गहारिणे मीढुष्टमाय देवाय शितिकण्ठाय ते नमः
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ताराय च सुताराय तारणाय नमोनमः
हरिकेशाय देवाय शंभवे परमात्मने देवानां शंभवे तुभ्यं भूतानां शंभवे नमः
शम्भवे हैमवत्याश् च मन्यवे रुद्ररूपिणे कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः
हिरण्याय महेशाय श्रीकण्ठाय नमोनमः भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च
नमो ह्रस्वाय दीर्घाय वामनाय नमोनमः नम उग्रत्रिशूलाय उग्राय च नमो नमः
भीमाय भीमरूपाय भीमकर्मरताय ते अग्रेवधाय वै भूत्वा नमो दूरेवधाय च
धन्विने शूलिने तुभ्यं गदिने हलिने नमः चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने
सद्याय सद्यरूपाय सद्योजाताय ते नमः वामाय वामरूपाय वामनेत्राय ते नमः
पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः
पुरुषार्थप्रदानाय पतये परमेष्ठिने ईशानाय नमस्तुभ्यम् ईश्वराय नमोनमः
ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत्
हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम् दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः
सैंहीं समानयन्योनिं बाधते निखिलं जगत् यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह
उग्रो ऽसि सर्वदुष्टानां नियन्तासि शिवो ऽसि नः कालकूटादिवपुषा त्राहि नः शरणागतान्
शुक्रं तु वृत्तं विश्वेश क्रीडा वै केवलं वयम् तवोन्मेषनिमेषाभ्याम् अस्माकं प्रलयोदयौ
उन्मीलयेत् त्वयि ब्रह्मन् विनाशो ऽस्ति न ते शिव संतप्तास्मो वयं देव हरिणामिततेजसा
सर्वलोकहितायैनं तत्त्वं संहर्तुमिच्छसि विज्ञापितस् तथा देवः प्रहसन्प्राह तान् सुरान्
अभयं च ददौ तेषां हनिष्यामीति तं प्रभुः सो ऽपि शक्रः सुरैः सार्धं प्रणिपत्य यथागतम्
जगाम भगवान् ब्रह्मा तथान्ये च सुरोत्तमाः अथोत्थाय महादेवः शारभं रूपमास्थितः
ययौ प्रान्ते नृसिंहस्य गर्वितस्य मृगाशिनः अपहृत्य तदा प्राणान् शरभः सुरपूजितः
सिंहात्ततो नरो भूत्वा जगाम च यथाक्रमम् एवं स्तुतस्तदा देवैर् जगाम स यथाक्रमम्
यः पठेच्छृणुयाद्वापि संस्तवं शार्वमुत्तमम् रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते
कथं देवो महादेवो विश्वसंहारकारकः शरभाख्यं महाघोरं विकृतं रूपमास्थितः
किं किं धैर्यं कृतं तेन ब्रूहि सर्वम् अशेषतः एवमभ्यर्थितो देवैर् मतिं चक्रे कृपालयः
यत्तेजस्तु नृसिंहाख्यं संहर्तुं परमेश्वरः तदर्थं स्मृतवान् रुद्रो वीरभद्रं महाबलम्
आत्मनो भैरवं रूपं महाप्रलयकारकम् आजगाम पुरा सद्यो गणानामग्रतो हसन्
साट्टहासैर् गणवरैर् उत्पतद्भिर् इतस्ततः नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः