स्तोष्यामस्त्वां कथं भासि देवदेव मृगाधिप स्तुतो ऽपि विविधैः स्तुत्यैर् भावैर्नानाविधैः प्रभुः
न जगाम द्विजाः शान्तिं मानयन्योनिमात्मनः यो नृसिंहस्तवं भक्त्या पठेद्वार्थं विचारयेत्
श्रावयेद्वा द्विजान्सर्वान् विष्णुलोके महीयते तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम्
सम्प्राप्य तुष्टुवुः सर्वं विज्ञाप्य मृगरूपिणः ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम्
आत्मत्राणाय शरणं जग्मुः परमकारणम् मन्दरस्थं महादेवं क्रीडमानं सहोमया
सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम् प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम्
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे नमः शिवाय रुद्राय शङ्कराय शिवाय ते
उग्रो ऽसि सर्वभूतानां नियन्तासि शिवो ऽसि नः नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे
मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः अन्तकाय नमस्तुभ्यम् उमायाः पतये नमः
हिरण्यबाहवे साक्षाद् धिरण्यपतये नमः शर्वाय सर्वरूपाय पुरुषाय नमोनमः
सदसद्व्यक्तिहीनाय महतः कारणाय ते नित्याय विश्वरूपाय जायमानाय ते नमः
जाताय बहुधा लोके प्रभूताय नमोनमः रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे
कालाय कालरूपाय नमः कालाङ्गहारिणे मीढुष्टमाय देवाय शितिकण्ठाय ते नमः
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ताराय च सुताराय तारणाय नमोनमः
हरिकेशाय देवाय शंभवे परमात्मने देवानां शंभवे तुभ्यं भूतानां शंभवे नमः
शम्भवे हैमवत्याश् च मन्यवे रुद्ररूपिणे कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः
हिरण्याय महेशाय श्रीकण्ठाय नमोनमः भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च
नमो ह्रस्वाय दीर्घाय वामनाय नमोनमः नम उग्रत्रिशूलाय उग्राय च नमो नमः
भीमाय भीमरूपाय भीमकर्मरताय ते अग्रेवधाय वै भूत्वा नमो दूरेवधाय च
धन्विने शूलिने तुभ्यं गदिने हलिने नमः चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने
सद्याय सद्यरूपाय सद्योजाताय ते नमः वामाय वामरूपाय वामनेत्राय ते नमः
पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः
पुरुषार्थप्रदानाय पतये परमेष्ठिने ईशानाय नमस्तुभ्यम् ईश्वराय नमोनमः
ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत्
हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम् दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः
सैंहीं समानयन्योनिं बाधते निखिलं जगत् यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह
उग्रो ऽसि सर्वदुष्टानां नियन्तासि शिवो ऽसि नः कालकूटादिवपुषा त्राहि नः शरणागतान्
शुक्रं तु वृत्तं विश्वेश क्रीडा वै केवलं वयम् तवोन्मेषनिमेषाभ्याम् अस्माकं प्रलयोदयौ
उन्मीलयेत् त्वयि ब्रह्मन् विनाशो ऽस्ति न ते शिव संतप्तास्मो वयं देव हरिणामिततेजसा
सर्वलोकहितायैनं तत्त्वं संहर्तुमिच्छसि विज्ञापितस् तथा देवः प्रहसन्प्राह तान् सुरान्