प्रह्राद जीविते वाञ्छा तवैषा शृणु चास्ति चेत् श्रुत्वापि तस्य वचनं हिरण्यकशिपोः सुधीः
प्रह्रादः पूजयामास नमो नारायणेति च नमो नारायणायेति सर्वदैत्यकुमारकान्
अध्यापयामास च तां ब्रह्मविद्यां सुशोभनाम् दुर्लङ्घ्यां चात्मनो दृष्ट्वा शक्रादिभिर् अपि स्वयम्
पुत्रेण लङ्घितामाज्ञां हिरण्यः प्राह दानवान् एतं नानाविधैर्वध्यं दुष्पुत्रं हन्तुमर्हथ
एवमुक्तास्तदा तेन दैत्येन सुदुरात्मना निजघ्नुर्देवदेवस्य भृत्यं प्रह्रादमव्ययम्
तत्र तत्प्रतिकृतं तदा सुरैर् दैत्यराजतनयं द्विजोत्तमाः क्षीरवारिनिधिशायिनः प्रभोर् निष्फलं त्वथ बभूव तेजसा
तदाथ गर्वभिन्नस्य हिरण्यकशिपोः प्रभुः तत्रैवाविरभूद्धन्तुं नृसिंहाकृतिमास्थितः
जघान च सुतं प्रेक्ष्य पितरं दानवाधमम् बिभेद तत्क्षणादेव करजैर् निशितैः शतैः
ततो निहत्य तं दैत्यं सबान्धवमघापहः पीडयामास दैत्येन्द्रं युगान्ताग्निरिवापरः
नादैस्तस्य नृसिंहस्य घोरैर्वित्रासितं जगत् आ ब्रह्मभुवनाद् विप्राः प्रचचाल च सुव्रताः
दृष्ट्वा सुरासुरमहोरगसिद्धसाध्यास् तस्मिन् क्षणे हरिविरिञ्चिमुखा नृसिंहम् धैर्यं बलं च समवाप्य ययुर्विसृज्य आ दिङ्मुखान्तम् असुरक्षणतत्पराश् च
ततस्तैर्गतैः सैष देवो नृसिंहः सहस्राकृतिः सर्वपात् सर्वबाहुः सहस्रेक्षणः सोमसूर्याग्निनेत्रस् तदा संस्थितः सर्वमावृत्य मायी
तं तुष्टुवुः सुरश्रेष्ठा लोका लोकाचले स्थिताः सब्रह्मकाः ससाध्याश् च सयमाः समरुद्गणाः
परात्परतरं ब्रह्म तत्त्वात् तत्त्वतमं भवान् ज्योतिषां तु परं ज्योतिः परमात्मा जगन्मयः
स्थूलं सूक्ष्मं सुसूक्ष्मं च शब्दब्रह्ममयः शुभः वागतीतो निरालंबो निर्द्वन्द्वो निरुपप्लवः
यज्ञभुग्यज्ञमूर्तिस्त्वं यज्ञिनां फलदः प्रभुः भवान्मत्स्याकृतिः कौर्मम् आस्थाय जगति स्थितः
वाराहीं चैव तां सैंहीम् आस्थायेहव्यवस्थितः देवानां देवरक्षार्थं निहत्य दितिजेश्वरम्
द्विजशापच्छलेनैवम् अवतीर्णो ऽसि लीलया न दृष्टं यत्त्वदन्यं हि भवान् सर्वं चराचरम्
भवान्विष्णुर्भवान् रुद्रो भवानेव पितामहः भवानादिर्भवानन्तो भवानेव वयं विभो
भवानेव जगत्सर्वं प्रलापेन किमीश्वर मायया बहुधा संस्थम् अद्वितीयमयं प्रभो
स्तोष्यामस्त्वां कथं भासि देवदेव मृगाधिप स्तुतो ऽपि विविधैः स्तुत्यैर् भावैर्नानाविधैः प्रभुः
न जगाम द्विजाः शान्तिं मानयन्योनिमात्मनः यो नृसिंहस्तवं भक्त्या पठेद्वार्थं विचारयेत्
श्रावयेद्वा द्विजान्सर्वान् विष्णुलोके महीयते तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम्
सम्प्राप्य तुष्टुवुः सर्वं विज्ञाप्य मृगरूपिणः ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम्
आत्मत्राणाय शरणं जग्मुः परमकारणम् मन्दरस्थं महादेवं क्रीडमानं सहोमया
सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम् प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम्
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे नमः शिवाय रुद्राय शङ्कराय शिवाय ते
उग्रो ऽसि सर्वभूतानां नियन्तासि शिवो ऽसि नः नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे
मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः अन्तकाय नमस्तुभ्यम् उमायाः पतये नमः
हिरण्यबाहवे साक्षाद् धिरण्यपतये नमः शर्वाय सर्वरूपाय पुरुषाय नमोनमः