शक्राद्यैः सहितो भूत्वा हर्षगद्गदया गिरा शाश्वताय वराहाय दंष्ट्रिणे दण्डिने नमः
नारायणाय सर्वाय ब्रह्मणे परमात्मने कर्त्रे धर्त्रे धरायास्तु हर्त्रे देवारिणां स्वयम् कर्त्रे नेत्रे सुरेन्द्राणां शास्त्रे च सकलस्य च
त्वमष्टमूर्तिस्त्वमनन्तमूर्तिस् त्वमादिदेवस्त्वमनन्तवेदितः त्वया कृतं सर्वमिदं प्रसीद सुरेश लोकेश वराह विष्णो
तथैकदंष्ट्राग्रमुखाग्रकोटिभागैकभागार्धतमेन विष्णो हताः क्षणात् कामद दैत्यमुख्याः स्वदंष्ट्रकोट्या सह पुत्रभृत्यैः
त्वयोद्धृता देव धरा धरेश धराधराकार धृताग्रदंष्ट्रे धराधरैः सर्वजनैः समुद्रैः सुरासुरैः सेवितचन्द्रवक्त्र
त्वयैव देवेश विभो कृतश् च जयः सुराणामसुरेश्वराणाम् अहो प्रदत्तस्तु वरः प्रसीद वाग्देवता वारिजसंभवाय
निहिता रसातलगता वसुंधरा तव पृष्ठतः सकलतारकादयः
जगतां हिताय भवता वसुंधरा भगवन् रसातलपुटं गता तदा अबलोद्धृता च भगवंस्तवैव सकलं त्वयैव हि धृतं जगद्गुरो
इति वाक्पतिर्बहुविधैस्तवार्चनैः प्रणिपत्य विष्णुममरैः प्रजापतिः विविधान्वरान् हरिमुखात्तु लब्धवान् हरिनाभिवारिजदेहभृत् स्वयम्
अथ तामुद्धृतां तेन धरां देवा मुनीश्वराः मूर्ध्न्यारोप्य नमश्चक्रुश् चक्रिणः संनिधौ तदा
अनेनैव वराहेण चोद्धृतासि वरप्रदे कृष्णेनाक्लिष्टकार्येण शतहस्तेन विष्णुना
धरणि त्वं महाभोगे भूमिस्त्वं धेनुरव्यये लोकानां धारिणी त्वं हि मृत्तिके हर पातकम्
मनसा कर्मणा वाचा वरदे वारिजेक्षणे त्वया हतेन पापेन जीवामस्त्वत्प्रसादतः
इत्युक्ता सा तदा देवी धरा देवैर् अथाब्रवीत् वराहदंष्ट्राभिन्नायां धरायां मृत्तिकां द्विजाः
मन्त्रेणानेन यो बिभ्रत् मूर्ध्नि पापात्प्रमुच्यते आयुष्मान् बलवान् धन्यः पुत्रपौत्रसमन्वितः
क्रमाद्भुवि दिवं प्राप्य कर्मान्ते मोदते सुरैः अथ देवे गते त्यक्त्वा वराहे क्षीरसागरम्
वाराहरूपमनघं चचाल च धरा पुनः तस्य दंष्ट्राभराक्रान्ता देवदेवस्य धीमतः
यदृच्छया भवः पश्यन् जगाम जगदीश्वरः दंष्ट्रां जग्राह दृष्ट्वा तां भूषणार्थमथात्मनः
दधार च महादेवः कूर्चान्ते वै महोरसि देवाश् च तुष्टुवुः सेन्द्रा देवदेवस्य वैभवम्
धरा प्रतिष्ठिता ह्येवं देवदेवेन लीलया भूतानां संप्लवे चापि विष्णोश्चैव कलेवरम्
ब्रह्मणश् च तथान्येषां देवानामपि लीलया विभुरङ्गविभागेन भूषितो न यदि प्रभुः
कथं विमुक्तिर्विप्राणां तस्माद्दंष्ट्री महेश्वरः
नृसिंहेन हतः पूर्वं हिरण्याक्षाग्रजः श्रुतम् कथं निषूदितस्तेन हिरण्यकशिपुर्वद
हिरण्यकशिपोः पुत्रः प्रह्राद इति विश्रुतः धर्मज्ञः सत्यसम्पन्नस् तपस्वी चाभवत्सुधीः
जन्मप्रभृति देवेशं पूजयामास चाव्ययम् सर्वज्ञं सर्वगं विष्णुं सर्वदेवभवोद्भवम्
तमादिपुरुषं भक्त्या परब्रह्मस्वरूपिणम् ब्रह्मणो ऽधिपतिं सृष्टिस्थितिसंहारकारणम्
सो ऽपि विष्णोस्तथाभूतं दृष्ट्वा पुत्रं समाहितम् नमो नारायणायेति गोविन्देति मुहुर्मुहुः
स्तुवन्तं प्राह देवारिः प्रदहन्निव पापधीः न मां जानासि दुर्बुद्धे सर्वदैत्यामरेश्वरम्
प्रह्राद वीर दुष्पुत्र द्विजदेवार्तिकारणम् को विष्णुः पद्मजो वापि शक्रश् च वरुणो ऽथवा
वायुः सोमस्तथेशानः पावको मम यः समः मामेवार्चय भक्त्या च स्वल्पं नारायणं सदा