एवं संपीड्य वै देवान् अन्धको ऽपि महासुरः यदृच्छया गिरिं प्राप्तो मन्दरं चारुकन्दरम्
ततस्ते समस्ताः सुरेन्द्राः ससाध्याः सुरेशं महेशं पुरेत्याहुरेवम् द्रुतं चाल्पवीर्यप्रभिन्नाङ्गभिन्ना वयं दैत्यराजस्य शस्त्रैर्निकृत्ताः
इतीदमखिलं श्रुत्वा दैत्यागमम् अनौपमम् गणेश्वरैश् च भगवान् अन्धकाभिमुखं ययौ
जयेति वाचा भगवन्तम् ऊचुः किरीटबद्धाञ्जलयः समन्तात्
अथाशेषासुरांस्तस्य कोटिकोटिशतैस् ततः भस्मीकृत्य महादेवो निर्बिभेदान्धकं तदा
शूलेन शूलिना प्रोतं दग्धकल्मषकञ्चुकम् दृष्ट्वान्धकं ननादेशं प्रणम्य स पितामहः
तन्नादश्रवणान्नेदुर् देवा देवं प्रणम्य तम् ननृतुर्मुनयः सर्वे मुमुदुर्गणपुङ्गवाः
ससृजुः पुष्पवर्षाणि देवाः शंभोस्तदोपरि त्रैलोक्यमखिलं हर्षान् ननन्द च ननाद च
दग्धो ऽग्निना च शूलेन प्रोतः प्रेत इवान्धकः सात्त्विकं भावमास्थाय चिन्तयामास चेतसा
जन्मान्तरे ऽपि देवेन दग्धो यस्माच्छिवेन वै आराधितो मया शंभुः पुरा साक्षान्महेश्वरः
तस्मादेतन्मया लब्धम् अन्यथा नोपपद्यते यः स्मरेन्मनसा रुद्रं प्राणान्ते सकृदेव वा
स याति शिवसायुज्यं किं पुनर्बहुशः स्मरन् ब्रह्मा च भगवान्विष्णुः सर्वे देवाः सवासवाः
शरणं प्राप्य तिष्ठन्ति तमेव शरणं व्रजेत् एवं संचिन्त्य तुष्टात्मा सो ऽन्धकश् चान्धकार्दनम्
सगणं शिवमीशानम् अस्तुवत्पुण्यगौरवात् प्रार्थितस्तेन भगवान् परमार्तिहरो हरः
हिरण्यनेत्रतनयं शूलाग्रस्थं सुरेश्वरः प्रोवाच दानवं प्रेक्ष्य घृणया नीललोहितः
तुष्टो ऽस्मि वत्स भद्रं ते कामं किं करवाणि ते वरान्वरय दैत्येन्द्र वरदो ऽहं तवान्धक
श्रुत्वा वाक्यं तदा शंभोर् हिरण्यनयनात्मजः हर्षगद्गदया वाचा प्रोवाचेदं महेश्वरम्
भगवन्देवदेवेश भक्तार्तिहर शङ्कर त्वयि भक्तिः प्रसीदेश यदि देयो वरश् च मे
श्रुत्वा भवो ऽपि वचनम् अन्धकस्य महात्मनः प्रददौ दुर्लभां श्रद्धां दैत्येन्द्राय महाद्युतिः
गाणपत्यं च दैत्याय प्रददौ चावरोप्य तम् प्रणेमुस्तं सुरेन्द्राद्या गाणपत्ये प्रतिष्ठितम्
कथमस्य पिता दैत्यो हिरण्याक्षः सुदारुणः विष्णुना सूदितो विष्णुर् वाराहत्वं कथं गतः
तस्य शृङ्गं महेशस्य भूषणत्वं कथं गतम् एतत्सर्वं विशेषेण सूत वक्तुमिहार्हसि
हिरण्यकशिपोर्भ्राता हिरण्याक्ष इति स्मृतः पुरान्धकासुरेशस्य पिता कालान्तकोपमः
देवाञ्जित्वाथ दैत्येन्द्रो बद्ध्वा च धरणीमिमाम् नीत्वा रसातलं चक्रे वन्दीम् इन्दीवरप्रभाम्
ततः सब्रह्मका देवाः परिम्लानमुखश्रियः बाधितास्ताडिता बद्ध्वा हिरण्याक्षेण तेन वै
बलिना दैत्यमुख्येन क्रूरेण सुदुरात्मना प्रणम्य शिरसा विष्णुं दैत्यकोटिविमर्दनम्
सर्वे विज्ञापयामासुर् धरणीबन्धनं हरेः श्रुत्वैतद्भगवान् विष्णुर् धरणीबन्धनं हरिः
भूत्वा यज्ञवराहो ऽसौ यथा लिङ्गोद्भवे तथा दैत्यैश् च सार्धं दैत्येन्द्रं हिरण्याक्षं महाबलम्
दंष्ट्राग्रकोट्या हत्वैनं रेजे दैत्यान्तकृत्प्रभुः कल्पादिषु यथापूर्वं प्रविश्य च रसातलम्
आनीय वसुधां देवीम् अङ्कस्थामकरोद्बहिः ततस् तुष्टाव देवेशं देवदेवः पितामहः