रुचिकेश्वरकं चैव धारैषा कपिला शुभा एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः
मुच्यते नात्र संदेहो ह्य् अविमुक्ते यथा शुभम् महास्नानं च यः कुर्याद् घृतेन विधिनैव तु
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च
विशोध्य सर्वद्रव्यैस्तु वारिभिर् अभिषिञ्चति संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा
पूजया शतसाहस्रम् अनन्तं गीतवादिनाम् महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम्
जलेन केवलेनैव गन्धतोयेन भक्तितः अनुलेपनं तु तत् सर्वं पञ्चविंशत्पलेन वै
शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम् अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत्
चतुर्द्रोणैर् महादेवम् अष्टद्रोणैरथापि वा दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैरथापि वा
शतद्रोणसमं पुण्यम् आढके ऽपि विधीयते वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा
भेरीमृदङ्गमुरजतिमिरापटहादिभिः वादित्रैर्विविधैश्चान्यैर् निनादैर्विविधैरपि
जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम् स भृत्यपुत्रदारैश् च तथा संबन्धिबान्धवैः
सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल्लिङ्गम् उत्तमम् द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर
कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च
जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्
तत्फलं समवाप्नोति वाराणस्यां यथा मृतः तथैव मम सायुज्यं लभते नात्र संशयः
मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम् अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च
अर्चयामास देवेशं रुद्रं भुवननायकम् अविमुक्ते च तपसा मन्दरस्य महात्मनः
कल्पयामास वै क्षेत्रं मन्दरे चारुकन्दरे तत्रान्धकं महादैत्यं हिरण्याक्षसुतं प्रभुः
अनुगृह्य गणत्वं च प्रापयामास लीलया एतद्वः कथितं सर्वं कथासर्वस्वमादरात्
यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम् सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत्
श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेन्द्रियान् स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः
अन्धको नाम दैत्येन्द्रो मन्दरे चारुकन्दरे दमितस्तु कथं लेभे गाणपत्यं महेश्वरात्
वक्तुमर्हसि चास्माकं यथावृत्तं यथाश्रुतम् अन्धकानुग्रहं चैव मन्दरे शोषणं तथा
वरलाभमशेषं च प्रवदामि समासतः हिरण्याक्षस्य तनयो हिरण्यनयनोपमः
पुरान्धक इति ख्यातस् तपसा लब्धविक्रमः प्रसादाद्ब्रह्मणः साक्षाद् अवध्यत्वमवाप्य च
त्रैलोक्यमखिलं भुक्त्वा जित्वा चेन्द्रपुरं पुरा लीलया चाप्रयत्नेन त्रासयामास वासवम्
बाधितास्ताडिता बद्धाः पातितास्तेन ते सुराः विविशुर्मन्दरं भीता नारायणपुरोगमाः