कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम्
द्विदेवकुलसंज्ञं च ब्रह्मणा दक्षिणे शुभम् उत्तरे स्थापितं चैव विष्णुना चैव शैलजम्
महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम् पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम्
अलंकृतं त्वया ब्रह्मन् पुरस्तान् मुनिभिः सह इत्युक्त्वा तद्गृहे तिष्ठद् अलंगृहमिति स्मृतम्
तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे कदम्बेश्वरम् एतद्धि स्कन्देनैव प्रतिष्ठितम्
गोमण्डलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम् देवैः सर्वैस्तु शक्राद्यैः स्थापितानि वरानने
श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पश्य मे तथा हारपुरे देवि तव हारे निपातिते
त्वया हिताय जगतां हारकुण्डमिदं कृतम् शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते
तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम् अलंकृतं मया ब्रह्म पुरस्तान् मुनिभिः सह
चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा चण्डिकानिर्मितं स्थानम् अंबिकातीर्थम् उत्तमम्
रुचिकेश्वरकं चैव धारैषा कपिला शुभा एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः
मुच्यते नात्र संदेहो ह्य् अविमुक्ते यथा शुभम् महास्नानं च यः कुर्याद् घृतेन विधिनैव तु
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च
विशोध्य सर्वद्रव्यैस्तु वारिभिर् अभिषिञ्चति संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा
पूजया शतसाहस्रम् अनन्तं गीतवादिनाम् महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम्
जलेन केवलेनैव गन्धतोयेन भक्तितः अनुलेपनं तु तत् सर्वं पञ्चविंशत्पलेन वै
शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम् अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत्
चतुर्द्रोणैर् महादेवम् अष्टद्रोणैरथापि वा दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैरथापि वा
शतद्रोणसमं पुण्यम् आढके ऽपि विधीयते वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा
भेरीमृदङ्गमुरजतिमिरापटहादिभिः वादित्रैर्विविधैश्चान्यैर् निनादैर्विविधैरपि
जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम् स भृत्यपुत्रदारैश् च तथा संबन्धिबान्धवैः
सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल्लिङ्गम् उत्तमम् द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर
कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च
जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्
तत्फलं समवाप्नोति वाराणस्यां यथा मृतः तथैव मम सायुज्यं लभते नात्र संशयः
मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम् अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च
अर्चयामास देवेशं रुद्रं भुवननायकम् अविमुक्ते च तपसा मन्दरस्य महात्मनः