श्रीपर्वतमनुप्राप्य देव्या देवेश्वरो हरः क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः
कुण्डीप्रभं च परमं दिव्यं वैश्रवणेश्वरम् आशालिङ्गं च देवेशं दिव्यं यच्च बिलेश्वरम्
रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम् दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम्
पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम् विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम्
मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम् अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम्
गोचर्मेश्वरम् ईशानं तथेन्द्रेश्वरम् अद्भुतम् कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम्
श्रीमत्सिद्धवटं चैव सदावासो ममाव्यये अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम्
तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे तत्र शृङ्गाटकाकारं शृङ्गाटाचलमध्यमे
शृङ्गाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम् मल्लिकार्जुनकं चैव मम वासमिदं शुभम्
रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम् गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम्
कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम्
द्विदेवकुलसंज्ञं च ब्रह्मणा दक्षिणे शुभम् उत्तरे स्थापितं चैव विष्णुना चैव शैलजम्
महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम् पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम्
अलंकृतं त्वया ब्रह्मन् पुरस्तान् मुनिभिः सह इत्युक्त्वा तद्गृहे तिष्ठद् अलंगृहमिति स्मृतम्
तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे कदम्बेश्वरम् एतद्धि स्कन्देनैव प्रतिष्ठितम्
गोमण्डलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम् देवैः सर्वैस्तु शक्राद्यैः स्थापितानि वरानने
श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पश्य मे तथा हारपुरे देवि तव हारे निपातिते
त्वया हिताय जगतां हारकुण्डमिदं कृतम् शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते
तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम् अलंकृतं मया ब्रह्म पुरस्तान् मुनिभिः सह
चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा चण्डिकानिर्मितं स्थानम् अंबिकातीर्थम् उत्तमम्
रुचिकेश्वरकं चैव धारैषा कपिला शुभा एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः
मुच्यते नात्र संदेहो ह्य् अविमुक्ते यथा शुभम् महास्नानं च यः कुर्याद् घृतेन विधिनैव तु
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च
विशोध्य सर्वद्रव्यैस्तु वारिभिर् अभिषिञ्चति संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा
पूजया शतसाहस्रम् अनन्तं गीतवादिनाम् महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम्
जलेन केवलेनैव गन्धतोयेन भक्तितः अनुलेपनं तु तत् सर्वं पञ्चविंशत्पलेन वै
शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम् अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत्
चतुर्द्रोणैर् महादेवम् अष्टद्रोणैरथापि वा दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैरथापि वा