उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम् शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम्
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे एवम् उक्त्वा महादेवो दिशः सर्वा व्यलोकयत्
विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः माहेश्वरा महात्मानस् तथा वै नियतव्रताः
बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम् पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः
तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे स्थितानां स तदा तेषां देवदेव उमापतिः
स बिभ्रत्परमां मूर्तिं बभूव पुरुषः प्रभुः कृत्स्नं जगदिहैकस्थं कर्तुम् अन्त इव स्थितः
तस्य तां परमां मूर्तिम् आस्थितस्य जगत्प्रभोः न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा
ततस्त्वदृष्टमाकारं बुद्ध्वा सा प्रकृतिस्थितम् प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी
तं शशाक पुनर्द्रष्टुं हरस्य च महात्मनः ततस्ते लयमाधाय योगिनः पुरुषस्य तु
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः पञ्चाक्षरस्य वै बीजं संस्मरन्तः सुशोभनम्
सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम् नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम्
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा स्तुवती चरणौ नत्वा क इमे भगवन्निति
तामुवाच सुरश्रेष्ठस् तदा देवीं गिरीन्द्रजाम् मदीयं व्रतमाश्रित्य भक्तिमद्भिर् द्विजोत्तमैः
यैर्यैर्योगा इहाभ्यस्तास् तेषाम् एकेन जन्मना क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि
अनुग्रहो मया ह्येवं क्रियते मूर्तितः स्वयम् तस्माद् एतन् महत् क्षेत्रं ब्रह्माद्यैः सेवितं तथा
श्रुतिमद्भिश् च विप्रेन्द्रैः संसिद्धैश् च तपस्विभिः प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम्
उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते शशिभानूपरागे च कार्तिक्यां च विशेषतः
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्
उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम् पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम्
पुण्यस्थानस्थितां पुण्यां पुण्यदिक्प्रवहां सदा भजन्ते सर्वतो ऽभ्येत्य ये ताञ्छृणु वरानने
संनिहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस् तथा पुष्करं निमिषं चैव प्रयागं च पृथूदकम्
द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम् क्षेत्राणि सर्वतो देवि देवता ऋषयस् तथा
संध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः
भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम्
कालभैरवमासाद्य धूतपापानि सर्वशः भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु
पृथिव्यां यानि पुण्यानि महान्त्यायतनानि च प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु अविमुक्तं क्षेत्रवरं महापापनिबर्हणम्
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये
मध्यमेश्वरसंज्ञं च तथा पाशुपतेश्वरम् शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ
द्रुमचण्डेश्वरं नाम भद्रेश्वरम् अनुत्तमम् स्थानेश्वरं तथैकाग्रं कालेश्वरम् अजेश्वरम्