ते सर्वे पापनिर्मुक्ता विमला ब्रह्मचारिणः रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ब्रह्मा यत्र महाभागः पीतवासा बभूव ह
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक्
पीतगन्धानुलिप्ताङ्गः पीतमाल्यांबरो युवा हेमयज्ञोपवीतश् च पीतोष्णीषो महाभुजः
तं दृष्ट्वा ध्यानसंयुक्तो ब्रह्मा लोकमहेश्वरम् मनसा लोकधातारं प्रपेदे शरणं विभुम्
ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं वराम् गां विश्वरूपां ददृशे महेश्वरमुखाच्च्युताम्
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम् चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम्
द्वात्रिंशद्गुणसंयुक्ताम् ईश्वरीं सर्वतोमुखीम् स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम्
पुनराह महादेवः सर्वदेवनमस्कृतः मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः
एह्येहीति महादेवि सातिष्ठत्प्राञ्जलिर्विभुम् विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु
अथ तामाह देवेशो रुद्राणी त्वं भविष्यसि ब्राह्मणानां हितार्थाय परमार्था भविष्यसि
तथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः प्रददौ देवदेवेशः चतुष्पादां जगद्गुरुः
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ब्रह्मा लोकगुरोः सो ऽथ प्रतिपेदे महेश्वरीम्
गायत्रीं तु ततो रौद्रीं ध्यात्वा ब्रह्मानुयन्त्रितः इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमीरिताम्
जपित्वा तु महादेवीं ब्रह्मा लोकनमस्कृताम् प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा
ततस्तस्य महादेवो दिव्ययोगं बहुश्रुतम् ऐश्वर्यं ज्ञानसंपत्तिं वैराग्यं च ददौ प्रभुः
ततो ऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः पीतमाल्यांबरधराः पीतस्रगनुलेपनाः
पीताभोष्णीषशिरसः पीतास्याः पीतमूर्धजाः ततो वर्षसहस्रान्त उषित्वा विमलौजसः
योगात्मानस्तपोह्लादाः ब्राह्मणानां हितैषिणः धर्मयोगबलोपेता मुनीनां दीर्घसत्त्रिणाम्
उपदिश्य महायोगं प्रविष्टास्ते महेश्वरम् एवमेतेन विधिना ये प्रपन्ना महेश्वरम्
अन्ये ऽपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः ते सर्वे पापमुत्सृज्य विमला ब्रह्मवर्चसः
प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः पुनरन्यः प्रवृत्तस्तु कल्पो नाम्नासितस्तु सः
एकार्णवे तदा वृत्ते दिव्ये वर्षसहस्रके स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम् कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा
कृष्णांबरधरोष्णीषं कृष्णयज्ञोपवीतिनम् कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम्
स तं दृष्ट्वा महात्मानम् अघोरं घोरविक्रमम् ववन्दे देवदेवेशम् अद्भुतं कृष्णपिङ्गलम्
प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम् मनसा ध्यानुयुक्तेन प्रपन्नस्तु तमीश्वरम्
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिन्तयत् तथा वै ध्यायमानस्य ब्रह्मणः परमेष्ठिनः