स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः इह सम्प्राप्यते येन तत एतद्विशिष्यते
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् प्रयागादपि तीर्थाग्र्याद् अविमुक्तमिदं शुभम्
धर्मस्योपनिषत् सत्यं मोक्षस्योपनिषच् छमः क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः
कामं भुञ्जन् स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः अविमुक्ते त्यजेत्प्राणान् जन्तुर्मोक्षाय कल्पते
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना
तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः
अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावितः जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते
ध्यायन्तस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् कैवल्यं परमं याति देवानामपि दुर्लभम्
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित्
तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम् आत्मनश्चैव सायुज्यम् ईप्सितं स्थानमेव च
कुबेरो ऽत्र मम क्षेत्रे मयि सर्वार्पितक्रियः क्षेत्रसंसेवनादेव गणेशत्वमवाप ह
संवर्तो भविता यश् च सो ऽपि भक्तो ममैव तु इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्
पराशरसुतौ योगी ऋषिर्व्यासो महातपाः मम भक्तो भविष्यश् च वेदसंस्थाप्रवर्तकः
रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुङ्गवः ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः
देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः उपासते महात्मानः सर्वे मामिह सुव्रते
अन्ये ऽपि योगिनो दिव्याश् छन्नरूपा महात्मनः अनन्यमनसो भूत्वा मामिहोपासते सदा
विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः इह क्षेत्रे मृतः सो ऽपि संसारे न पुनर्भवेत्
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः व्रतिनश् च निरारम्भाः सर्वे ते मयि भाविताः
देवदेवं समासाद्य धीमन्तः संगवर्जिताः गता इह परं मोक्षं प्रसादान्मम सुव्रते
जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात् तमिहैव परं मोक्षं प्रसादान्मम सुव्रते
गोप्रेक्षकम् इदं क्षेत्रं ब्रह्मणा स्थापितं पुरा कैलासभवनं चात्र पश्य दिव्यं वरानने
गोप्रेक्षकम् अथागम्य दृष्ट्वा मामत्र मानवः न दुर्गतिमवाप्नोति कल्मषैश् च विमुच्यते
कपिलाह्रदम् इत्येवं तथा वै ब्रह्मणा कृतम् गवां स्तन्यजतोयेन तीर्थं पुण्यतमं महत्
अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः सान्निध्यं कृतवान् देवि सदाहं दृश्यते त्वया
भद्रतोयं च पश्येह ब्रह्मणा च कृतं ह्रदम् सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः
गच्छोपशमम् ईशेति उपशान्तः शिवस् तथा अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना
ब्रह्मणा चापि संगृह्य विष्णुना स्थापितः पुनः ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा
मयानीतमिदं लिङ्गं कस्मात् स्थापितवान् असि तमुवाच पुनर् विष्णुर् ब्रह्माणं कुपिताननम्
रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा मयैव स्थापितं लिङ्गं तव नाम्ना भविष्यति
हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः