अकारो ह्यक्षरो ज्ञेय उकारः सहितः स्मृतः मकारसहितौंकारस् त्रिमात्र इति संज्ञितः
अकारस् त्वेष भूर्लोक उकारो भुव उच्यते सव्यञ्जनो मकारस्तु स्वर्लोक इति गीयते
ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम् भुवनाङ्गं च तत्सर्वं ब्राह्मं तत्पदमुच्यते
मात्रापादो रुद्रलोको ह्य् अमात्रं तु शिवं पदम् एवं ज्ञानविशेषेण तत्पदं समुपास्यते
तस्माद्ध्यानरतिर्नित्यम् अमात्रं हि तदक्षरम् उपास्यं हि प्रयत्नेन शाश्वतं सुखमिच्छता
ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम् ततः प्लुतवती चैव तृतीया चोपदिश्यते
एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः यावदेव तु शक्यन्ते धार्यन्ते तावदेव हि
इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा अर्धं तन्मात्रम् अपि चेच् छृणु यत् फलमाप्नुयात्
मासे मासे ऽश्वमेधेन यो यजेत शतं समाः तेन यत्प्राप्यते पुण्यं मात्रया तदवाप्नुयात्
न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः यत्फलं प्राप्यते सम्यङ् मात्रया तदवाप्नुयात्
तत्र चैषा तु या मात्रा प्लुता नामोपदिश्यते एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम्
एषां चैव विशेषेण ऐश्वर्ये ह्यष्टलक्षणे अणिमाद्ये तु विज्ञेया तस्माद्युञ्जीत तां द्विजाः
एवं हि योगसंयुक्तः शुचिर् दान्तो जितेन्द्रियः आत्मानं विद्यते यस्तु स सर्वं विन्दते द्विजाः
तस्मात्पाशुपतैर्योगैर् आत्मानं चिन्तयेद्बुधः आत्मानं जानते ये तु शुचयस्ते न संशयः
ऋचो यजूंषि सामानि वेदोपनिषदस् तथा योगज्ञानादवाप्नोति ब्राह्मणो ऽध्यात्मचिन्तकः
सर्वदेवमयो भूत्वा अभूतः स तु जायते योनिसंक्रमणं त्यक्त्वा याति वै शाश्वतं पदम्
यथा वृक्षात् फलं पक्वं पवनेन समीरितम् नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति
यत्र रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः अन्यदेवनमस्कारान् न तत्फलमवाप्नुयात्
तस्मात्त्रिःप्रवणं योगी उपासीत महेश्वरम् दशविस्तारकं ब्रह्म तथा च ब्रह्मविस्तरैः
एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजेत् स याति शिवसायुज्यं समुद्धृत्य कुलत्रयम्
अथवारिष्टमालोक्य मरणे समुपस्थिते अविमुक्तेश्वरं गत्वा वाराणस्यां तु शोधनम्
येन केनापि वा देहं संत्यजेन् मुच्यते नरः श्रीपर्वते वा विप्रेन्द्राः संत्यजेत्स्वतनुं नरः
स याति शिवसायुज्यं नात्र कार्या विचारणा अविमुक्तं परं क्षेत्रं जन्तूनां मुक्तिदं सदा
सेवेत सततं धीमान् विशेषान्मरणान्तिके
एवं वाराणसी पुण्या यदि सूत महामते वक्तुमर्हसि चास्माकं तत्प्रभावं हि सांप्रतम्
क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शोभनम् विस्तरेण यथान्यायं श्रोतुं कौतूहलं हि नः
वक्ष्ये संक्षेपतः सम्यक् वाराणस्याः सुशोभनम् अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः
विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना शक्यते नैव विप्रेन्द्रा वर्षकोटिशतैरपि
देवः पुरा कृतोद्वाहः शङ्करो नीललोहितः हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः
वाराणसीमनुप्राप्य दर्शयामास शङ्करः अविमुक्तेश्वरं लिङ्गं वासं तत्र चकार सः