भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा दीपगन्धं च नाघ्राति विद्यान्मृत्युम् उपस्थितम्
रात्रौ चेन्द्रधनुः पश्येद् दिवा नक्षत्रमण्डलम् परनेत्रेषु चात्मानं न पश्येन्न स जीवति
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः वक्रा च नासा भवति विज्ञेयो गतजीवितः
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् गण्डे वा पिण्डिकारक्ते तस्य मृत्युरुपस्थितः
मुक्तकेशो हसंश्चैव गायन्नृत्यंश् च यो नरः याम्यामभिमुखं गच्छेत् तदन्तं तस्य जीवितम्
यस्य श्वेतघनाभासा श्वेतसर्षपसंनिभा श्वेता च मूर्तिर्ह्यसकृत् तस्य मृत्युरुपस्थितः
उष्ट्रा वा रासभा वाभियुक्ताः स्वप्ने रथे शुभाः यस्य सो ऽपि न जीवेत्तु दक्षिणाभिमुखो गतः
द्वे वाथ परमे ऽरिष्टे एकीभूतः परं भवेत् घोषं न शृणुयात्कर्णे ज्योतिर् नेत्रे न पश्यति
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवितम्
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव
दिवा वा यदि वा रात्रौ प्रत्यक्षं यो निहन्यते हन्तारं न च पश्येच्च स गतायुर्न जीवति
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम्
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः कृष्णं रक्तमपि स्वप्ने तस्य मृत्युरुपस्थितः
अरिष्टे सूचिते देहे तस्मिन्काल उपस्थिते त्यक्त्वा खेदं विषादं च उपेक्षेद् बुद्धिमान् नरः
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः समे ऽतिस्थावरे देशे विविक्ते जन्तुवर्जिते
उदङ्मुखः प्राङ्मुखो वा स्वस्थश् चाचान्त एव च स्वस्तिकेनोपविष्टस्तु नमस्कृत्वा महेश्वरम्
समकायशिरोग्रीवो धारयन् नावलोकयेत् यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता
प्रागुदक्प्रवणे देशे तथा युञ्जीत शास्त्रवित् कामं वितर्कं प्रीतिं च सुखदुःखे उभे तथा
निगृह्य मनसा सर्वं शुक्लं ध्यानम् अनुस्मरेत् घ्राणे च रसने नित्यं चक्षुषी स्पर्शने तथा
श्रोत्रे मनसि बुद्धौ च तत्र वक्षसि धारयेत् कालकर्माणि विज्ञाय समूहेष्वेव नित्यशः
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते शतमर्धशतं वापि धारणां मूर्ध्नि धारयेत्
खिन्नस्य धारणायोगाद् वायुरूर्ध्वं प्रवर्तते ततश्चापूरयेद् देहम् ओङ्कारेण समन्वितः
तथौंकारमयो योगी अक्षरे त्वक्षरी भवेत् अत ऊर्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम्
एष त्रिमात्रो विज्ञेयो व्यञ्जनं चात्र चेश्वरः प्रथमा विद्युती मात्रा द्वितीया तामसी स्मृता
तृतीयां निर्गुणां चैव मात्रामक्षरगामिनीम् गान्धारी चैव विज्ञेया गान्धारस्वरसंभवा
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते यथा प्रयुक्त ओङ्कारः प्रतिनिर्याति मूर्धनि
तथौंकारमयो योगी त्व् अक्षरी त्वक्षरी भवेत् प्रणवो धनुः शरो ह्यात्मा ब्रह्मलक्षणमुच्यते
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ओमित्येकाक्षरं ह्येतद् गुहायां निहितं पदम्
ओमित्येतत्त्रयो लोकास् त्रयो वेदास्त्रयो ऽग्नयः विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च
मात्रा चार्धं च तिस्रस्तु विज्ञेयाः परमार्थतः तत्प्रयुक्तस्तु यो योगी तस्य सालोक्यमाप्नुयात्